________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५०
श्राद्धकल्पः
[५ का.]
"अपात्रोपहता पङ्क्तिः पाव्यते यैईिजोत्तमैः ।
तान् निबोधत कार्नेन ब्राह्यणान् पङ्क्तिपावनान्” । इति । ये पुनस्तानपि पतिपावनान् पुनन्ति, ते खल्विमे पत्रिपावनपावनाउच्यन्ते । 'इति' उदाहरन्तीतिगतेन संबन्धः ॥ ७॥ वागीश्वरायाज्ञिकश्च पङक्तिपावनपावनः, इति
__ च ॥८॥ वाचामीश्वरः-संस्कृतां वाचं यः प्रयुक्त महाभिप्रेयते। तस्याः प्रयोगे ह्यभ्युदयमामनन्ति । “एकः शब्दः सुप्रयुक्तः सम्यक्ज्ञातः खर्गे लोके च कामधुगभवति”-दूति। 'यश्च व्याकुरुते शब्दान्'इत्यत्र ज्ञानमात्र विवक्षितम् । तदपि खल्वभ्युदयहेतुरितियोरुपादानम् । एतद्दा वचनं ज्ञानमात्रमभिप्रेत्य, प्रयोगञ्चाभिप्रेत्यान्यवर्णनीयम् । अथवा । 'यश्च व्याकुरुते शब्दान',-इति वैयाकरणपरं वचनम् । यस्त्ववैयाकरणेऽपि संस्कृतां वाचं जानाति प्रयुत वा, सायं वागीश्वरः। याज्ञिकोयज्ञानुष्ठाता। सखल्वयं पति-पावनपावन इति पूर्ववदर्थः । 'इति च' उदाहरन्तीति गतेनाभिसंवन्धः । केचिदेतत् सूत्रं न पठन्ति । महायशःप्रभृतिभिस्तु पठितं व्याख्यातञ्च ॥ ८॥ नियाज्यानामभावेऽप्येकं वेदविदं पक्तिमूर्द्धनि
नियुञ्जयात् काममितरान् ॥६॥ ये ब्राह्मणाः श्राद्धे नियोज्यतयाऽभिहिताः, यावद्भिब्राह्मणैः प्रयोजनं यदि तावन्तस्तथाविधान प्राप्यन्ते, तदाऽपि वेदविदमेकं ब्राह्मणं
For Private and Personal Use Only