________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[५ का.]
१०५७ आवाहनादिवज वाग्यतः ॥ ४॥ श्रावाहनादिप्रश्नप्रत्युत्तरादीन् विहाय, वाग्यतोनियमितवचनः। 'स्यात्' इति पूर्वस्मादनुवर्त्तते ॥ ४ ॥
ओपस्पर्शनात् ॥ ५॥ पाउपस्पर्शनात् श्रोपस्पर्शनात्। उपस्पर्शनं प्राचमनमित्यनर्थान्तरम् । श्राउपस्पर्शनात् आचमनपर्यन्तम्,-"प्राचान्तेषूदकम्” इत्यादिसूत्रो पात्तब्राह्मणाचमनपर्यन्तमित्येतत् । 'वाग्यतोपस्पर्शनात्' इति सूत्रपाठे विसर्गलोपे सन्धिराद्रष्टव्यः । - ते खल्चमी नियमाभोरपि भवन्ति। अविशेषेणाभिधानात् । कात्यायनोऽप्येतत् सर्वमुपदिश्य, "आमन्त्रिताश्चैवम्” इति सूत्रयन्नेतदेवाह ॥ ५ ॥
अपिचाचोदाहरन्ति ॥ ६॥ अपिचात्रैतस्मिन् कर्मणि ब्राह्मणप्रसंशामुखेन कतिचिद्धोधमानुदाहरन्याचार्याः ॥ ६ ॥
यश्च व्याकुरुते शब्दान् यश्च मीमासतेऽध्वरम । सामस्वरविधिन्नश्च पंक्तिपावनपावनाः,-इति ॥७॥ यः शब्दान् व्याकुरुते मवैयाकरणः, यश्चाध्वरं यज्ञं मीमांसते सोऽयं मीमांसकः, साम्नः स्वराणं-क्रुष्टादीनां विधिं योजानाति स मामखरविधिज्ञश्चैते पतिपावनपावनाः । ये खल्वपात्रोपहतां पति पुनन्ति त दुमे पतिपावनाभण्यन्ते । स्मरन्ति च ।
For Private and Personal Use Only