________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
पञ्चमी काण्डिका ।
अथ धमाः।
अथेदानीमस्मिन् कर्मणि यजमानस्य भोक्तश्च यथासम्भवं धाःनियमाः, वर्तिव्यन्ते, इति सूत्रशेषः ॥ १ ॥
तदहस्तत्परः शुचिरक्रोधनोऽत्वरिताऽप्रमत्तः
सत्यवादी स्यात् ॥ २॥
यस्मिनहनिश्राद्धं भवति, तदहस्तस्मिन्नहनि । तत्परः तदाचरण चतुरः । चिः वाह्याभ्यन्तरीचवान् । वाह्यं शौचं स्नानादि, श्राभ्यन्तरं मनःप्रसादादि। अक्रोधनः-यः क्रोधं करोति, स क्रोधनः, स न भवतीत्यक्रोधनः। अत्वरितः, त्वरा संजाता यस्य मोऽयं वरितः, म न भवतीत्यत्वरितः । अप्रमत्तः प्रमादरहितः। प्रमादोऽनवधानतेत्यनर्थान्तरम् । सत्यवादी, सत्यं वदितुं शीलं यस्य, स भण्यते । 'स्थात्,' इति सर्वत्र संबन्धनीयम् ॥ २ ॥
अध्वमैथुनश्रमस्वाध्यायान् वर्जयेत् ॥ ३॥
तदहरित्येव । श्रध्वनावर्जनमध्वगमनाभावः । खाध्यायोवेदाध्ययनम् ॥ ३॥
For Private and Personal Use Only