________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४२
प्राडकल्पः।
[ का.]
मा तावत् मन्त्रवर्जनोपदेशात् द्रव्यस्य वर्जन सेधि, किन्तु मन्त्रवर्जनोपदेशात् द्रव्यवर्जनमनुमास्यामहे । एवं खल्वसौ निषेधोन्यायमूलोभविष्यति, इति । तदपि नास्ति । मन्त्रवर्जनस्य न्यायमूलत्वोपपिपादयिषया तावत् द्रव्यवर्जनमनुमित्मति भवान् । तत्रैवं मति क्व ते लाघवम् ? । तदरं मति द्रव्ये मन्त्रवर्जनं वाचनिकमिथ्यताम्। अलं द्रव्यस्य वर्जनानुमानेन । यतोऽवश्यमेकस्य वाचनिकत्वं भवताऽप्यभ्युपगन्तव्यम्। एवं खलु सिद्धान्तोऽप्यनुग्रहीय्यते । अनेकान्तिकञ्चैतत् लिङ्गं न खल्वपि द्रव्यस्य वर्जनं शक्नोत्यनुमापयितुम् । 'मधु'-इत्येतस्य त्रिर्जपोपदेशोप्येवं मति न स्यात् । तस्मात् यथोकमेवास्तु ॥ ६ ॥
दधिवदराक्षतमिश्राः पिण्डाः ॥७॥
दधिवदरे प्रसिद्धे। अक्षतायवः । कुतः ? । “अक्षतास्तु यवाः प्रोक्ताः" -इति स्मरणात् । तैर्मिश्राः पिण्डाभवन्ति । तथा च कात्यायनः ।
"सर्वस्मादन्नमुद्धत्य व्यञ्जनैरुपसिच्य च। संयोज्य यवकर्कन्धूदधिभिः प्रामुमुखस्ततः । अवनेजनवत् पिण्डान दत्त्वा विल्वप्रमाणकान् ।
सत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्”।। इति। तदनेन शेषट्रव्यघटितपिण्डानां दधिवदराक्षतमित्रत्वरूपगुणमात्रविधानात् नात्र ब्राह्मणभोजने दध्यादिकमवश्यं प्राप्नोति। फलचमसन्यायवैषम्यात् । राजन्यवैश्यकर्टकज्योतिष्टोमे हि संस्कारस्य तदर्थत्वात् होमविशेषवचनात चममेरु ल्यकालखात् लिङ्गदर्शनाच फल
For Private and Personal Use Only