________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३२
श्राद्धकल्पः।
[३ का.]
इति । षोड़शानां हिरावृत्तिश्चैकादशाहसपिण्डनपक्षे । तत्रोनमासिकस्य कालसत्वात् । अन्ये पने तु यथासम्भवं द्रष्टव्यम्। तथा च काणाजिनिः ।
"अागब्दाद्यत्र यत्र सपिण्डीकरणं भवेत्।
तदुर्द्धमासिकानां स्याद्यथाकालमनुष्ठितिः” । इति । मदनरत्ने अङ्गिराः।
“यस्य संवत्मरादाक् गपिण्डीकरणं भवेत् ।
मासिकञ्चोदकुम्भच्च देयं तस्यापि वत्सरम्” । इति । पैठिनमिः ।
"मपिण्डीकरणादाक् कुर्वन् श्राद्धानि षोड़श । एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु । सपिण्डीकरणादूद्धं यदा कुर्यात्तदा पुनः ।
प्रत्यब्दं योयथा कुर्यात्तथा कुर्यात् स तान्यपि” । इति । तदेवं व्यासाद्युक्तकल्पेऽपकर्षपक्षे यथासम्भवं षोड़शश्राद्धानां द्विरावृत्तिर्नियता। प्रत्याब्दिकवच्चामीषां पुनः करणम् । छन्दोगपरिशिष्टोत तु कल्पे मासिकानां पुनरनुष्ठानं न नियतम्। एकोद्दिष्टविधानेन चैषां पुनरनुष्ठानं भवति न प्रत्याब्दिकवत् । तथा च च्छन्दोगपरिशिष्टं कात्यायनः ।
"मपिण्डीकरणादूई न दद्यात् प्रतिमासिकम् ।
एकोद्दिष्टविधानेन दद्यादित्याह शौनकः” । इति। 'नदद्यात् प्रतिमासिकमेकाद्दिष्टविधानेनेति संबन्धादद्यादित्याह शौनक इत्यनेनैकोद्दिष्टस्यैवापर मपिण्डीकरणादूई विकल्पो दर्शितः'
For Private and Personal Use Only