________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राडकल्पः।
१.३३
-इति शूलपाणिः । यत्तु स च विकल्पोऽप्राप्तप्रेतभावविषयदति शूलपाणिः ; यच्च, अप्राप्तप्रेतभावविषयवचमपतितमासिकविषयोपीति मन्तव्यमिति रघुनन्दनचाह। तदुभयमपि प्रमाणभावापेक्षणीयम्। दृद्धिनिमित्तेन त्वपकर्षे वृद्धेरवागेव पुनरपवय्य षोड़शश्राद्धानां पुनरनुष्ठानम् । यथा कार्णाजिनिः ।
"मपिण्डीकरणादागपकृय्य कृतान्यपि ।
पुनरप्यपकृष्यन्ते वृड्युत्तरनिषेधनात्” । इति। निषेधमाह कात्यायनः ।
"निवर्त्य वृद्धितन्त्रन्तु मासिकानि न तन्त्रयेत् ।
अयातयामं मरणं न भवेत् पुनरस्य तु”। इति ॥ १३॥ अथेदानीमितिकर्त्तव्यतायां योविशेषः, सोऽभिधीयते,तदहश्चत्वार्य्यदकपात्राणि सतिलगन्धोदकानि
पूरयित्वा ॥ १४॥ तदहस्तस्मिन्नहनि, तिलगन्धोदकसहितानि चत्वार्यय॑पात्राणि पूरयित्वा तथा च भविष्यपुराणम् ।
"गन्धोदकतिलयुक्तं कुर्यात् पात्रचतुष्टयम् ।
अार्थ पिलपात्रेषु प्रेतपाचं प्रसेचयेत्” । इति । गन्धोऽत्र वैकृताविशेषः । तद्विशेषात् प्राकृतस्य तिलोदकस्य निवृत्तिं मा प्रशाङ्गीदिति 'मतिलगन्धोदकानि,'–इत्याह। पवित्रन्त न निवर्त्तते । कथं कृत्वा ?। प्राकृतानि पात्राण्यनद्य तव चतुष्टं
19
For Private and Personal Use Only