________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राद्धकल्पः।
इति व्यामाधुक्तकल्पे बोद्धव्यम्। तत्रैव कल्ये मपिण्डीकरणस्य तत्रानन्तभीवात् ।
"दादशप्रतिमास्थानि श्राद्यं पाएमासिके तथा ।
मपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोड़शम्” । इति छन्दोगपरिशिष्टोत तु कल्ये षोड़शश्राद्धेम्वेव मपिण्डीकरणमन्तभवति । पूर्वकल्ये, द्वादशाहे क्रियमाणमूनमासिकमिति द्रष्टव्यम् । तथा च गोभिलपरिशिष्टम् ।
___मरणात् द्वादशाहे स्यान्मास्यूने वोनमासिकम्” । इति । गोभिलस्यैतदितिमदनपारिजातः । तदस्माकं दावयेतो कल्या भवतः। दयोरेवास्मत्परिशिष्टानुमतत्वात्।
यदा त्वपक्कय्य षोड़शश्राद्धानि सपिण्डीकरणच करोति, तदा मपिण्डीकरणात् परं पुनरपि षोडशश्राद्धानां यथाकालमनुष्ठानं कर्त्तव्यं प्रेतशब्दोल्लेखस्तु तच न करणीयः । तदाह कात्यायनः ।
“दादशाहेऽथ सवाणि संक्षेपेण समापयेत्।
तान्येव तु पुनः कुर्यात् प्रेतशब्द न कारयेत्”। इति। प्रेतशब्दकरणनिषेधात् द्वादशाहसपिण्डीकरणात् परं तदानीमेव प्रेतत्वनिवृत्तिरवगम्यते । कालमाधवीये गोभिलपरिशिष्टम् ।
“यस्य संवत्मरादाक् विहिता सुमपिण्डता ।
विधिवत्तानि कुर्चीत पुनः श्राद्धानि षोड़श। इति। गोभिलस्यैतदिति माधवाचार्यः । तत्रैव गालवः ।
"अवाक् संवत्मराद् यस्य सपिण्डीकरणं कृतम्। घोड़शानां द्विरावृत्तिं कुर्यादित्याद गौतमः" ।
For Private and Personal Use Only