________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[३ का.]
षण्मासस्त्रिपक्षोद्धदिनञ्चेति । ते खल्विमे कालाः माग्निनिरग्निमाधारणा भवन्ति । वाक्याविशेषानवेगमात् ।।
अत्र च, सपिण्डीकरणस्थापकर्षविधानादेव तत्पूर्वमासिकानामप्यपकर्षः सिध्यति। अग्निषोमीये पणी प्रयाजस्थापकर्षविधानात् प्रयाजान्तकर्मकलापस्थापकर्षः, इति यथा। तथाचोकम् । “तदादि वाऽभिसंबन्धात्तदन्तमपकर्षे स्थात्" इति । तथा च,
“मपिण्डीकरणं यत्र समाकृष्टं समासिकम्” । इति स्मरन्ति । तथा गर्गः ।
"तस्यैवाकय्य कुर्वीत मासिकञ्च सपिण्डनम्” । इति । तथा चतुर्वर्गचिन्तामणी शान्यायनिः ।
"प्रेतश्राद्धानि शिष्टानि मपिण्डीकरणं तथा ।
अपकृय्यापि कुर्बोत कर्तुं नान्दीमुखं द्विजः" । इति मासिकानां मपिण्डीकरणस्य चापकर्षमुपदिशति । विज्ञानेश्वरस्वेतदविज्ञाय, मासिकानि सपिण्डनादूई स्वकालएव कार्याणि, अपकर्षस्खनुकल्पः, इत्याह । निषेधमप्याह गोभिलपरिशिष्टम् ।
__"श्राद्धानि षोड़शादत्त्वा नैव कुर्यात् मपिण्डनम्"। इति । गोभिलस्यैतदिति मदनपारिजातः । तथा लोगाक्षिः ।
"श्राद्धानि षोड़शापाद्य विदधीत सपिण्डनम्" । इति । श्राभ्यां यत् घोड़शश्राद्धेभ्यः परतः मपिण्डीकरणमुक्त, तत्
"बादशाहे त्रिपक्षे च षण्मासे मासिकाब्दिके । श्राद्धानि षोड़शैतानि संस्मृतानि मनीषिभिः"।
For Private and Personal Use Only