________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३ का. ]
इति ।
" जातकमादि चूड़ान्तं किन्तु कुर्वीत नाधिकम् । महागुरुनिपाते तु यस्मात्तत्र सुतेोऽशुचिः” । इति च तत्रैव वचनान्तरम् । न च जातकर्मादिचूड़ान्तसंस्कारकलापोऽपि कथं कर्त्तव्यः, तत्रापि सुतस्याशचित्वाविशेषादितिवाच्यम् । "शिशेः पञ्चाब्दपर्यन्तं नाशाचं नैव पातकम् । न चास्य राजदण्डोऽस्ति प्रायश्चित्तं न विद्यते" ।
श्राद्धकल्पः ।
१०२९
इति वृद्धमनुवचनेन तदानों तस्याशौचाभावात् । यच्च स्मरन्ति,— " जाते पुत्रे तु पुत्रस्य माता यदि विनश्यति । तन्मातरमसंस्कृत्य न संस्कुर्य्यात् पिता सुतम् । न स्यात् यद्यपि तन्मातुर्हद्धिश्राद्धे प्रवेशनम् । तथाप्यवश्यं संस्कार्य्य महागुर्वी हि सा शिशाः” । इति । तन्निर्मूलमिति स्मृतिसागरः । तस्य समूलत्वे तु विधिप्रतिषेधसन्निपाताद्विकल्पएव मन्तव्यः । मृतपिटकस्य पुनरेवंविधस्य चूड़ान्तसंस्कारार्थमपि पितुः सपिण्डीकरणमपकर्ष्टव्यम् । कुतः ? |
"स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्म्मसु । पिण्डनेनात्तेषां तस्याभावे तु तत्क्रमात् ” ।
इति छन्दोगपरिशिष्टवचनेन तस्य तदानीं नान्दीमुखश्राद्धात्वात् । अन्तरेण च सपिण्डीकरणं तदयोगात् । तथा च स्मृतिसागरे गर्गः । "वृद्धा नान्दीमुखश्राद्धे प्रवेशो यस्य विद्यते ।
तस्यैवाव्य कुर्वीत मासिकञ्च सपिण्डनम् ” ।
इति । तदेवमस्माकं चत्वारः सपिण्डीक (एकाला : - पूर्णः संवत्सरः,
For Private and Personal Use Only