________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२०
श्राडकल्यः।
[३ का.]
भिक्षुर्भिक्षां न ग्रहाति हन्तकारो न रह्यते । नित्यं नैमित्तिकं लुप्येत् यावत् पिण्डं न मेलितम् । कर्मलोपात् प्रत्यवायी भवेत्तस्मात् मपिण्डनम्।
निरग्निकः साग्निकोवा दादशाहे समाचरेत्” । इति गारुड़ेऽभिहितम् । तत्र, व्रतबन्धादेः सर्वथैव निषेधः, अन्यस्य तु मपिण्डनात् पूर्वमिति बोद्धव्यम्। अतएव व्रतबन्धादिनिषेधे 'नैव भवेत्' इति 'सहमेधिनि मते'-दूति चाभिहितम्। कः पुनरभिप्रायः ?। ग्टहमेधिमरणनिमित्तएवामीषां सर्वथा निषेधः, न पुनः मपिण्डनाकरणनिमित्तः, इति। 'भिनुर्भितां न सहाति' इत्यादी च, यावत् पिण्डं न मेलितम्' इत्युक्तम्। सपिण्डनात् परतः करणममीषां यथा स्यात्, इति । न चेदेवम्, काम्यानामप्युत्सवादीनामविशेषात् मपिण्डनात् परतः करणं प्रसज्येत। तच्चानिष्टम् । पूर्वोतलघुहारीतवचनविरोधात् । तस्मात् यथोकएवार्थः । श्रथात्रापरिस्पष्टन् सपिण्डनात् परतो व्रतबन्धादीनामपि करणस्य प्रतीतिं मन्यसे, तथापि सैव प्रतीतिर्वाधितव्या भवति । किं कारणम् ?। आनुमानिकी हि तादृशी प्रतीतिः, प्रत्यक्षस्तु निषेधः । न खल्वनुमानं प्रत्यक्षविरुद्धमादर्त्तव्यं भवति । स्मृतिपुराणयोश्च विरोधे दुर्बलत्वं पुराणस्थावाचाम। तस्मात् व्रतोदाव्यतिरिक्तसंस्कारार्थमपकर्षः कर्त्तव्यदति सिछम्। हतमाटकस्य पुत्रस्य चूड़ान्तसंस्कारं कुर्वता च पित्रा तदर्थं पुत्रमातुः मपिण्डनं नापकर्यव्यम् । तथा च स्मृतिसागरे वृद्धवशिष्ठः ।
"मृतमानकपुत्रस्य पिता संस्कारमाचरेत् । अपकृष्य न कर्त्तव्यं पुत्रमातुः सपिण्डनम्"।
For Private and Personal Use Only