________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२६
[३ का. ]
करणम्। न तु तत्पूर्व्वदिने । तस्याशब्दत्वात् । निमित्तनैमित्तिकयोः समानदिनत्वस्यैात्सर्गिकत्वाच्च । वृद्धिर्हि निमित्तमपकर्षस्य । तथा च मदनरत्ने पुलस्त्यः ।
“निरग्निकः सपिण्डत्वं पितुर्मातुश्च धर्मतः । पूर्ण संवत्सरे कुर्य्यादृद्धिब्बी यदहर्भवेत् ।
इति यदहर्वृद्धिर्भवेत् तदहः सपिण्डीकरणमभिधत्ते, न तत्पूर्वेदिने । अत्रापि भवेत्, - इति सम्भावनायां लिङ् । तथा चतुर्विंशतिमते । “सपिण्डीकरणं चाब्दे संपूर्णेऽभ्युदयेऽपि वा " ।
इति । तदेतेषु वचनेषु व्यवहितपूर्व्वदिनस्य कुत्राप्यनभिधानात् वृद्धिदिनपूर्व्वदिने सपिण्डीकरणमिति व्यामेाहएव । एवञ्च श्रपकर्षात् परतएव नान्दीमुखश्राद्धं करणीयं भवति ।
श्रपद्येत - इति कुर्वन् वृद्धेरुत्कटकोटिकसम्भावनैवापकर्षनिमितमिति दर्शयति । तेन तादृशसम्भावनया सपिण्डीकरणे कृते पश्चात् विघ्नेन वृद्धेरभावेऽपि न सपिण्डीकरणमावर्त्तनीयम् । वृद्धिमम्भावनया करणेन यथाकालकृतत्वात् । कृतेऽपि त्वपकर्षे प्रथमवत्सरे काम्यकर्मणां निषेधात् तेषामपकर्षनिमित्तत्वं नास्ति । तथा च स्मृतिसागरे वृहस्पतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
“प्रत्यवायो भवेद् यस्मिन्नकृते वृद्धिकर्मणि । तन्निमित्तं समाकृष्य पित्रोः कुर्य्यात् सपिण्डनम् । प्रत्यवायाश्रया वृद्धिः पुनश्च निपतेद् यदि । प्रेतान्दे सापि कर्त्तव्या नान्यत् कर्म कदाचन । व्रतोद्वाहप्रतिष्ठादि यज्ञदानत्रतानि च ।
For Private and Personal Use Only