________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२५
[३ का.]
श्राद्धकल्पः। "वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत् ।
सश्राद्धी नरके घोरे पिटभिः सह मज्जति” । इत्यूशनोवचनात् संवत्सरमध्ये वृद्धिसम्भावनायामेव षण्मासत्रिपक्षकल्पाविति केचित् । नैतदस्माकं भवति । कस्मात् । यस्मादत्र भवान् सूत्रकारः 'पूर्ण संवत्सरे षण्मासे त्रिपचे वा'-दूति सूत्रयित्वा, 'यदहवा दृद्धिरापद्येत' इति विकल्येन पृथगेव सूत्रयति, ततोऽवगछामः-विनापि वृद्धिसम्भावनामेतौ कल्यौ भवतः, इति । सोऽयं तुल्यवद्धिकल्पः, पूर्ण संवत्सरे षण्मासे त्रिपक्षे वा कुर्यात् , यदहर्टद्धिरापद्येत तदा कुर्यादिति। कुतः?। उभयत्रैव वाशब्दोपादानात् ॥ १२॥
यदहा वृद्धिरापद्येत ॥ १३ ॥
वृद्धिरभ्युदयो मङ्गलमित्यनर्थान्तरम् । तच्च पूतीदन्यदभिधीयते । कथं ज्ञायते ? । “वृद्धिपूर्तेषु युग्मानाशयेत्” इति ग्टह्यसूत्रे तत्रैव वृद्धिपदप्रयोगात् । वृद्धिः पुरुषसंस्कारः, इति भट्टनारायणः । वृद्धिराशास्यमानं-पुंसवनादिकं कर्म इत्यपरे । यदहर्यस्मिन्नहनि वृद्धिरापद्येत ;-'गत्यर्थाः प्राप्त्यर्थाः ज्ञानार्थाः', इत्युक्तः, श्रा-सम्यक् ; अवश्यकर्त्तव्यतया उत्कटकाटिकतया च प्राप्येत ज्ञायेत-यस्मिन्नहनि श्रावश्यक वृद्धिप्राप्तिरुत्कटकोटिकतया सम्भाव्यते इत्यर्थः । सम्भावनायां लिङ् । 'तदहश्चत्वार्युदकपात्राणि', इति वक्ष्यमाणेन, तदहः मपिण्डीकरणमिति गतेन वा सम्बन्धः । तेन यस्मिन् दिने श्रावश्यकद्धरुत्कटकोटिका सम्भावना भवति, तदिने सपिण्डी
18
For Private and Personal Use Only