________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राडकाल्पः।
[३ का.]
पूणे संवत्सरे षण्मासे विपक्षे वा ॥१२॥ पूर्ण संवत्मरे मृततिथावेव । कथं ज्ञायते? ।
"पितुः मपिण्डीकरणं वार्षिके मृतवासरे"। . इत्युशनसातः । यच,
"ततः मपिण्डीकरणं वत्मरात् परतः स्थितम्" । इति भविष्यपुराणवचनम् । तत् , यस्यां तिथौ मृतस्तां तिथिमादाय वर्षगणनया बोध्यम्। प्राचार्य्यस्तु प्रायणतिथिमवधिंकृत्वा तत्परवर्तिनी तिथिमादाय वर्षगणनामभिप्रयन् 'पूर्णसंवत्सरे'-दूत्याह । एतदभिप्रायेणैव,
"पितुः पितृत्वप्राप्यर्थं पूर्ण संवत्सरे सुतः ।
ताहात् परतः कुर्यात् सपिण्डीकरणं बुधः । इति वचनमुपपद्यते । कथं नाम ?। मृताहात् मरणदिनात् परत:परां तिथिमादाय वर्षगणनया संवत्सरे पूर्ण सपिण्डीकरणम्-इति । शूलपाणिस्वमुमर्थमबुद्धा विरोधभिया वचनमेतदनाकरमाह।
षण्मासे, दूत्यपरः कालः एकवचनसंयोगादेकएवायं कालः । पूरणप्रत्ययश्चात्र लुप्तवत् द्रष्टव्यः । तेन षष्ठमासे इत्यर्थः सिद्धाभवति। अवापि मृततिथिरेवकालोबोद्धव्यः । त्रिपजे, इत्यन्यः कालः । अयमपिकालामृततिथिरेवावधार्यते । किं कारणम् ? । पूर्णसंवत्सरादिसाहचर्यादयमपि चान्द्रएवावगम्यते । गणना चास्य तहदेव प्रायणतिथिमवधिं कृत्वा तत्परवर्त्तिनी तिथिमारभ्य, इति। वाशब्दाविकल्यार्थः । अत्रच,
For Private and Personal Use Only