________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
१०२३ इत्याश्वलायनवचनमपि बकृचमात्रविषयम् । तदवेकोद्दिष्टे मन्त्रस्योहापोहेषु अभिलापवाक्ये च बहु कक्रव्यमस्ति । ग्रन्थगौरवभयादुपारम्यते ॥ १० ॥ प्रकरणान्तरमाइ,
अथ सपिण्डीकरणम् ॥ ११ ॥ वर्त्तिव्यते, इति सूत्रशेषः । समानः पिण्डायस्य, असौ सपिण्डः प्राप्तपिहलोकोभण्यते । तस्य हि पिण्ड: समानः साधारणोभवति । कथम् ? । सपिण्डीकरणात् परतः खल्वयं पार्वणभागी भवति । तत्र च पितामहादिभिः सममस्य पिण्डदानं भवति। तदानीञ्च यदस्मैदास्यते मात्रादीनामपि तत्र भाग इति। सायं पिण्डो न परमस्यैव । समानाहि म माचादीनां भवति । तेषामपि तत्र भोगस्याविशेषात्। पूर्वञ्च मपिण्डकरणात् न पितामहादिभिः समानोऽस्य पिण्डोभवति, न वा तत्रान्यस्य भोगदति । तस्मादमपिण्डस्य मपिण्डस्य करणं मपिण्डीकरणमिति कर्मणानामधेयम्।
पार्वणमेकोद्दिष्टञ्चाभिधायेतस्याभिधानात् पावणेकादिष्टाभ्यामेतदिक्रियते, इत्यवगच्छामः । स्मरन्ति च ।
"श्राद्धदयमुपक्रम्य कुर्बीत सहपिण्डताम् ।
तयोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्" । इति ॥ ११ ॥ अथास्य कालमाह
For Private and Personal Use Only