________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२२
श्राडकाल्पः।
[३ का.]
रमिकोरघुनन्दनस्तु, भातातपवचनोक 'उपतिष्ठताम्' इत्यनेनात्मर्गप्रसङ्गादिभ्यत् एकाद्दिष्टप्रकरणे तवचनस्य 'उपतिष्ठतामिति' इति प्रतीकमपन्हुवानः, प्रेतश्राद्धे संबन्धोलेखाभावसाधकरूपेण, 'प्रेतान्तनामगोत्राभ्यामुत्सृजेत्' इति पूर्वप्रतीकमा लिलेख । सायमेकस्यैव वचनस्य खाभिमतमंशं प्रमाणयति, खानभिमतञ्चांशमपन्हुते, इति किमत्र ब्रूमः ॥ ६॥
अभिरम्यतामिति विसर्गः ॥ १० ॥
वाजे वाजे, इति मन्त्रेण पार्वणे विसर्जनमुक्तम् । अत्र तु, 'अभिरम्यताम्'-इत्यनेन तत् कर्त्तव्यम् । योग्यत्वात् 'अभिरतास्मि'इति, 'अभिरताः स्म'-इति वा प्रतिवचनं द्रष्टव्यम् । यच्च,
"प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम् ।
खस्त्यस्तु विसृजेदेवं सकृत् प्रणववर्जितम्" । इत्याश्वलायनग्टह्यपरिशिष्टवचनात् अभिरम्यताम्' इति विसर्गः प्रत्याब्दिकैकाद्दिष्टविषयः । प्रेतकोद्दिष्टे तु 'स्वत्यस्तु'-इत्यनेनैव विसर्गः, -दूति श्रीदत्तादिभिर्वर्णितम् । तदसङ्गतम् । श्राश्वलायनग्टह्यपरिशिष्टस्य बड़चपरतयाऽस्मत्प्रयोगपरत्वाभावात् । अस्मत्सूत्रकारेण विशेषस्थानुपदेशाच। तदेवं सूत्रितविशेषव्यतिरेकेणान्यत् मर्च पार्वणवदेव कर्त्तव्यं भवति । चोदकोहि तत् प्रापयति । यच्च प्रचेतानाम्ना वचनं पठन्ति । "नाशिषः प्रति ग्रहीयात्” इति । तदपि तदुक्तप्रयोगविषयम् । इतरथा प्रत्याब्दिकैकोद्दिष्टेप्येतनस्यात्। इष्यते च। तस्माद् यथोक्तमेवास्तु । "खधोच्यतामिति वाचं विसृजेत्”
For Private and Personal Use Only