________________
Shri Mahavir Jain Aradhana Kendra
[ ३ का. ]
वचनम्, -
www.kobatirth.org
-
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
उपतिष्ठता मित्यक्षय्यस्थाने ॥ ९ ॥
वक्तव्यम् ।
अक्षय्य मस्तु, -- इत्य क्षय्यशब्दस्याने, उपतिष्ठताम् इति श्रस्तु पदमप्यनिवर्त्तते । " प्रेतायाक्षय्यमस्तु ” – इति ब्रह्मपुराण
१०२१
,
"ततावदेत् पुनर्धीमानचय्यमुपतिष्ठताम्” ।
इति मार्कण्डेयपुराणवचनञ्च तत्तत्प्रयोगविषयम् । तदचाक्षय्यस्थानमात्रे, उपतिष्ठतामिति विधानात् “सर्व्वत्रार्थादौ उपतिष्ठतामित्यनेनोत्सर्गः” – इत्यमङ्गतैषा कल्पना । यच्च, -
“प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम् ” ।
इति शातातपवचनम् । तत् तदुक्तप्रयोगविषयम् । बहुचानां प्रेतश्राद्धे चोपतिष्ठतामित्यनेनेात्सर्गस्तत्परिशिष्टे लिखितः । एतदजानानएव शूलपाणिराश्वलायनीयानामपि हविस्त्यागवाकये स्वधापदमिच्छति ।
" प्रेतश्राद्धेषु सर्व्वेषु न स्वधा नाभिरम्यताम् ” । इत्याश्वलायनग्टह्यपरिशिष्टान्तरेपि प्रेतश्राद्धेषु स्वधाप्रयोगोनिषिद्धः । श्रस्माकन्तु प्रेतश्राद्धे स्वधापदस्य निषेधाभावात् तेनैवेोत्सर्गः । “ खधाकारः पितृणाम् ” – इत्यत्र पितृपदं प्रमीतमाचपरम् । इतरथा प्रेतश्राद्धे त्यागप्रकारस्यानुपदेशादनध्यवसायः प्रसज्येत । व्यश्टङ्गोऽपि ।
For Private and Personal Use Only
“न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके” । इत्यत्र दशाहिकग्रहणं कुर्व्वान्यच खधाप्रयोगमनुजानाति । समुच्चय