________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०१६
[ ३ का. ]
---
स्यात्, - दूतीमामधिकाशङ्कां निरसितुमिदं सूत्रं प्रववृते । तदत्रैकाऽर्घ्यइत्यनेन प्राकृतयेोर्द्वितीयढतीयार्ध्ययोर्व्युदासं कृत्वा प्रथममवस्थापयति। तथाच, 'वैष्णव्यएककपाल : ' - इत्यच प्रथमोपस्थितत्वात् प्रथमकपालधर्म्मानुष्ठानवत् अत्रापि प्रथमपाचधमनुष्ठानमिति । तस्मात्, चोदक्रप्राप्तं न्युजकरणमचापि कर्त्तव्यं भवति । यच्च, संस्त्रवमवनयनाभावात् प्रथमपात्राभावाच्च नात्रा पाचन्युजता - इति वर्णितम् । तदसङ्गतम् । चादकप्राप्तस्य विनावचनं वारयितुमशक्यत्वात् । संस्रव - समवनयनञ्च प्रतिपत्तिः - इति तदभावोऽकिञ्चित्करः । संस्रवाः खल्वेवं प्रतिपाद्यन्ते । सेयं प्रतिपत्तिः प्रतिपाद्याभावात् मा भवतु, कथं नु न्युब्जतापि न कर्त्तव्या । प्रकृतौ खज्वेतत् न्युजकरणमुपस्थितत्वात् प्रथमपात्रपर्य्यवसितं भवति । इह तु पात्रान्तराभावात् संशयेोनास्ति । अतेा यदेवात्र पात्रं तदेव न्युजं कर्त्तव्यम् । चोदको हि न पात्रं प्रापयति, किन्तु तस्य न्युजकरणमात्रम् । तत् कथं न क्रियेत । तदेवं वैकृतविशेषपरत्वेप्यस्य, न्युजकरणं कर्त्तव्यम्, इत्युक्तं भवति । प्राकृतस्य प्रथमपात्रस्यावस्थानमनेनेाच्यते, — इत्येतस्मिंस्तु पक्षे न किमपि चोदयितव्यं भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
—
ननु, 'पात्रं न्युजं करोति' - इति वचनात् न्युजकरणं पात्रार्थं गम्यते । वैकृतविशेषपरत्वे तु सुत्रस्यैतन्निवर्त्तेत । नैषदोषः । वैकृतस्यापि पात्रविशेषस्य प्राकृतवत् संस्कारोपपत्तेः । चादको हि तत् प्रापयति । अपिच । नैतत् न्युजकरणं पाचार्थं किन्त्वपूर्व्वार्थम् । कृतप्रयोजनं खल्विदानीं पात्रम् । न तेन संस्कृतेन किञ्चित् प्रयोजनम् । तदर्थञ्चेत् न्युजकरणं तदप्यनर्थकं भवति । नचार्थवत् शास्त्रमनर्थकं
For Private and Personal Use Only