________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३ का. ]
द्विवचनमेवास्य लक्षणायां तात्पर्य्यग्राहकमित्यवधार्य्यते । तस्मात्, प्रमाणाभावान्नात्र दललक्षणा | प्रमाणान्तरविज्ञेयत्वात्तस्याः । तथा चाक्रम् ।
-
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
"गौणे सदपि सामर्थ्यं न प्रमाणान्तरं विना । श्राविर्भवति मुख्ये तु शब्दादेवाविरस्ति तत् । तात्पर्य्यञ्च स्वतोमुख्ये गौणार्थपरता पुनः । प्रमाणान्तरविज्ञेया तदभावान्न सिध्यति” ।
।
इति । तस्मात् एकं पवित्रमिति पुनरभिधानसार्थकत्वाय, इति रिक्तं वचः । एकेोऽर्थः - इति एकः पिण्डः, - इति चेतयोरनर्थकत्वापत्तिचैवमवनीया स्यात् । तदनयोर्न्यायमूलत्वं विशेषविधित्वं वा श्रकामेनापि वाच्यम् । तत्सामान्यात् श्रस्यापि तथात्वमेवाच्यताम् । कृतमर्द्धजरतीयेन । यत्तु भार्गवनाम्ना वचनं पठन्ति
" पार्व्वणेषु तु सर्व्वेषु पवित्रं द्विदलं स्मृतम् । नैकाद्दिष्टे तु तत् प्रोक्तं पवित्रं द्विदलं नृप !” । इति । तदस्मत्प्रयोगव्यतिरिक्तविषयम् । श्रस्माच्छास्त्रे, 'यत्र कुत्रचित् " — इति व्याप्यवगतेस्तद्विराधेनैतस्यादरणासम्भवात् । स्वशास्त्रविरुद्धं खल्वपरशास्त्रं नादर्त्तव्यमिति परोक्तसमुच्चयवादिनापि मन्यन्ते । तस्मात्, - पार्व्वणवदेव द्विदलरूपमत्र पवित्रमिति वाचस्पतिमिश्राद्युक्रमादरणीयम् ॥ ० ॥ २ ॥ ० ॥
एकोऽर्घ्यः ॥ ३ ॥
पूर्व्ववयाख्यानम् । पवित्रस्यैकत्वविधानेऽपि तद्रहितमेवान्यदर्घ्यपात्रं
For Private and Personal Use Only
१०१५
-