________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१४
श्राद्धकल्पः।
[३ का.]
ऽयः एकं पवित्रम्'-दूति यदिपर्य्यस्य पठितं रघुनन्दनेन, तदनाकरम् । भाष्यकारैरपि चिरन्तनैः, 'एक पवित्रमेकोऽर्थः' इति क्रमवदेवैतत् सूत्रदयं पठितम् । तथात्वेपि वा, अय॑स्यैकत्वेऽपि, एक स्मिन्नेवार्थे चोदकप्राप्तं पवित्रबहुत्वमदृष्टार्थं स्यादित्यधिकाशङ्कानिरामार्थमस्थ सूत्रणं नानुपपन्नम् । ___यच्चापरमुकम्,-अर्थेक्यात् दिदलरूपसङ्केतितपवित्रैक्यप्राप्ती एक पवित्रमिति पुनरभिधानमार्थकत्वाय तदवयवपरम्, इति । तदपि न सुन्दरम् । यतो न्यायमूलं विशेषोपदेशपरं वा वचनम् । उभयथापि,
"अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेवच ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्" । इति स्वशास्त्रोक्त विशिष्टमेव पवित्रं पार्वणवदत्रापि प्राप्नोति। 'यत्र कुत्रचित्'-दूति व्यायवगतेश्चैवमवगच्छामः । “ततएव वर्हिषः प्रादेशमात्रे पवित्रे कुरुते"-दूति ग्रह्यसूत्रे, “पवित्रस्थोवैष्णव्यौ"इत्युपपत्यर्थी दललक्षणा तु,--
"आज्यस्योत्पवनार्थं यत्तदप्येतावदेव तु” । इति कात्यायनेनैव स्पष्टीकता। अत्र तु तत्परिग्रहे न किञ्चित् कारणमस्ति । इतरथा पावणेप्येकदलं पवित्रं स्यात् । नचैवमिष्यते । दिवचनान्त: खल पवित्रशब्दोदलं लक्षयति, नत्वेकवचनान्तोऽपि । कथं ज्ञायते ?। “पवित्रस्थोवैष्णव्यौ”-दूति, “पवित्रे कुरुते"इति चैवमादिषु तथा दर्शनात् । “अच्छिद्रण पवित्रण"-दुति, "पवित्रमन्तरा कृत्वा"-इति चैवमादिषु तथाऽदर्शनाच्च । तदेवं
For Private and Personal Use Only