________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राद्धकल्पः।
१०१७
कर्त्तव्यम् । तस्मादपूर्वार्थ न्युञ्जकरणं न पात्रार्थम्। ननु पात्रार्थेपि न्युजकरणे अवश्यमदृष्टं कल्पयितव्यम् । सत्यं कल्पयितव्यम् । पाचसंस्कारद्वारं तत् । तेन च प्रयोजनं नास्तीत्युक्रम् । तथाच, 'उत्तानं पात्रं कृत्वा'-इति श्राद्धार्थतामस्य ज्ञापयति । तस्मात् 'मनन् जुहाति' इत्यादिवदिदमप्यदृष्टार्थं न द्रव्यार्थम् । तस्मात् , नैवं विज्ञायते, न्युजकरणेन पात्रं संस्कुर्यात्, इति। कथं तहि ?। पात्रस्य न्युजकरणेनादृष्टं साधयेत्, इति ॥ ३ ॥
एकः पिण्डः ॥ ४॥ पूर्ववर्णनीयम् । तदत्र, पिण्डस्यैकत्वविधानादनप्रकरस्य न निषेधः । न यमौ पिण्डः, इत्यवोचाम। यत्तु पठन्ति,
“एकाद्दिष्टे एिण्डमेकं विकिरन्तु न कारयेत्”। इति। तदस्मत्प्रयोगव्यतिरिक्तविषयम्। समुच्चयरसिकास्तत्त्वकारादयस्तु, वचनमेतदजानन्लएवात्र विकिरमभ्युपगच्छन्तीति लिव्यते ॥४॥
नावाहनम् ॥५॥ तत्र पिणामावाहनं यदि हितं तदत्र न कर्त्तव्यम्। तत्रैष मांशयिकोऽर्थः । किं श्राद्धमंबन्ध्याबाहनमनेन निषिध्यते, पिण्डदानसंबन्धि वा ?-इति। तत्र, “नावाहनं नाग्नौकरणमिति निषेधयोः पौर्वापयादग्नौकरणपूर्वकालीन प्रधानसंबन्धि श्राद्धसूत्रोद्दिष्टं श्राद्धार्थाबाइनमेव निषिध्यते, नत्वप्रधानसंबन्धि पिण्डपित्यज्ञवदित्यतिदेशप्राप्तं पिण्डार्थावाहनम्” इति तत्त्वकारः । तदसङ्गतम्। 'एकः पिण्डः'इत्यभिधाय, श्रावाहननिषेधात् पिण्डावाहनस्यैवाय निषेधो न
For Private and Personal Use Only