________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१२
श्राहकल्पः।
[३ का.]
पदप्रयोगोऽत्र नोपदिष्टः । एवं खल्वसौ प्रत्याब्दिकेपि प्रमज्येत । कथं नु म मा प्रमन्नि, इति यदुभयसाधारणं तदेवोपदिष्टम्। प्रेतैकोद्दिष्टे तु शास्त्रान्तरात् प्रेतपदप्रयोगः स्यात् । तेन, प्रत्याब्दिकमप्येकोद्दिष्टमेव । न पुनरेतेन तधि क्रियते । तस्मात् , तस्याप्ये कोद्दिष्टतयैवोल्लेखोनवेकोद्दिष्टविधिकतया, इति द्रष्टव्यम्। “प्रथैकोद्दिष्टं तत् बेधा भवति नवं मित्रं पुराणञ्च"-दूति शाखान्तरेपि प्रत्याब्दिकस्यैकोद्दिष्टत्वमुक्तं नत्वेकोद्दिष्टविधिकत्वम्, इति ।
गौड़ास्तु एतत्प्रकरणशेष “एतत् प्रेतश्राद्धम्” इति, एतत् काण्डिकापरिसमाप्तौ, “अत ऊई संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् ; यस्मिन्बहनि प्रेतः स्यात्" इति च सूत्रद्वयमधिकं पठन्तः,प्रेतैकोद्दिष्टमेवैतत् प्रत्याब्दिकेऽप्यस्यैव धर्मप्रदेशः, इति मन्यमानाः प्रत्याब्दिकमेकादिष्टविधिकतयोग्लिखन्ति। पाश्चात्यस्त्रग्रन्थे तु नैतत् सूत्रद्वयं पद्यते। भाष्यकारैरपि चिरन्तन पठितं न खल्वपि व्याख्यातम् । छन्दोगापरसूत्रेऽपि न तादृशं किञ्चित् पद्यते। पारस्करोपि नैवं किञ्चित् सूत्रयाञ्चकार । कात्यायनएव मपिण्डीकरणात परम्,"अत ऊर्ध्वं प्रेतायान्नं दद्यात्; यस्मिन्नहनि प्रेतः स्यात्” इति सूत्रयाम्बभूव । परममावपि, “एतत् प्रेतश्राद्धम्” इति नोवाच । यदापि तत् पद्यते, तदापि प्रेतश्राद्धमिति प्रेतपदस्य, ‘प्रेतायावं दद्यात्'-दूतिवत् प्रेमीतोऽर्थः, इति दयमेकेनैव ग्रन्थेनोच्यते, इति न किञ्चिदनुचितम् ॥०॥ १ ॥०॥
एक पवित्रम्॥२॥ पार्वणवत् पवित्रबहत्वप्राप्ता, एकमित्यनेन तस्यैकत्वं विधत्ते। तदिदं
For Private and Personal Use Only