________________
Shri Mahavir Jain Aradhana Kendra
१००८
www.kobatirth.org
[ २ का. ]
प्रधानं विहितम् इत्यङ्गमेवेतिकर्त्तव्यता प्रदेक्ष्यते । कथन्तार्ह नित्यश्राद्धादौ पिण्डदानस्य निषेध: ? । दूतिकर्त्तव्यतानिषेधाभिप्रायेण, - इति ग्टहाण । इतिकर्त्तव्यतायाश्च निषेधात् पिण्डेोपि न दीयते । उत्तरवेदेर्निषेधात् वश्वदेवे सुनासीरीये च यथा न श्रग्निः प्रणी - यते । न हि विहितमपि इतिकर्त्तव्यताभिरनुपकृतमधीय कल्पते । eta चार्थेनास्ति, सेापि किमिति क्रियेत । श्रपिच । न चोदकएव प्रापयति, किन्तर्हि चोदनापि । तस्मादुभयेोः प्राधान्यपते चोदकेन पिण्डामा प्रापि । चोदनया तु प्रास्यते । तत्र, चोदनया प्राप्तः पिण्डः प्रतिषिध्यमानस्तदितरत् चोदनाप्राप्तं कर्त्तव्यमनुजानीते | सायं पर्य्युदासेान निषेधः ।
,
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
पिण्डदानमात्रविधिस्त्वङ्गभूतपिण्डदानात् कर्मान्तरम्, इति यदुक्तम् । तत्र पृच्छामः । तस्य श्राद्भूत्वमस्ति न वा ? । अस्ति चेत्, विफलः प्रयास: । कमीन्तरञ्चैतदेवं न स्यात् । सति ब्राह्मणभोजने पिण्डदानमङ्गम्, असति तस्मिन् प्रधानमिति चेत् । न । रूपभेदाभावात्। यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि । तत्रैवं सति, सति ब्राह्मणभोजने तदङ्गं विपरीतमन्यथाः - इत्यत्र न खलु कारणमस्ति । श्रपिच । एवमपि पिण्डदानस्य श्राद्धत्वमभ्युपगतं भवति । तथा वास्तव ब्राह्मणभोजने सत्यपि तस्मिन् प्रधानमेवैतत् स्यात् ।
अस्तु तर्हि, पिण्डदानस्य श्राद्धत्वं नास्ति, - इति । तदपि नास्ति । यतः तत्र भवान् ग्टह्यकार: 'तत् श्राद्धम्' - इति सूत्रयन् पिण्डपिटयज्ञस्य श्राद्धलमाह । पिण्डप्रधानस्तु सः । पिण्डैरेव तत्र पितरज्यन्ते । न पुनर्ब्राह्मणभोजनमस्ति । तस्मात्, पिण्डमन्तरेणेव ब्राह्मण
For Private and Personal Use Only