________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २का. ]
१००६
भोजनादृतेपि श्राद्धनिष्पत्तिदर्शनात् नैतदेकतरस्मिन्नेव पक्षे चोदयितव्यं भवति । द्वयोः समानत्वात् । समुच्चयपचः खन्वेवमुपाद्दलिताभवति । श्रथ, अनयोरेकतरस्यैव प्राधान्यमिति निर्बन्धः ; पिण्डदानमात्रं तर्हि प्रधानमुच्यताम् । पिण्डदानएव तंत्र भवताग्टह्मकारस्य महायत्नदर्शनात् । तथा मनुरपि ।
" महपिण्ड क्रियायान्तु कृतायामस्य धर्मतः श्रनयैवावृता कार्यं पिण्डनिर्व्वषणं सुतैः” । इति पिण्डदानस्य प्राधान्यमाह । सर्व्ववचनसामन्जस्य करणाभिमानिनान्त्येतन्मनुवचनविरोधादुष्परिहरः स्यात् । श्रस्माकन्तु नैषविरोधः । विभिन्नविषयत्वाद्वचनानाम् । यच्च - पिण्ड निर्व्वपणं पित्रे दानमिति वर्णितम् । तदसङ्गतम् । यथाश्रुतार्थपरित्यागे हेत्वभावात् । पित्रुयकदानमात्रस्यैव तदितिकर्त्तव्यतापत्तेश्च । 'अस्य', - इति करणाचै - वमवगच्छामः ।
16
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
" एवं निर्वणं कृत्वा पिण्डोस्तांस्तदनन्तरम् ” । इति तस्यैव वचनान्तरदर्शनाच्चैवं गम्यते । 'न निर्व्वपति यः पिण्डम् - इति चैवमादौ तथैव निर्दिश्यते । प्रसिद्धिश्चैवमनुग्रहीष्यते । तस्मादपवर्णितं तत् । तदेवं कस्यचित् पिण्डदानस्य कस्यचिच्च ब्राह्मणभोजनस्य प्राधान्ये स्वरमः,—इत्यतः कारणात् समुच्चयपचः प्रादुर्भवति । श्रतः एकतरप्राधान्यावेदकानि वचनानि न खल्वेतत्पचे चोदयितव्यानि भवन्ति। सायमलङ्कारो न दोषः । परेषां पुनरयं पर्य्यनुयोगोऽवर्जनीयः स्यात् । तथाचेाभयथादर्शनम् । श्रन्वष्टक्यादौ तच भवान् ग्टह्यकारः पिण्डदानं महता प्रबन्धेनेापदिदेश, न ब्राह्मणभोजनम् ।
For Private and Personal Use Only