________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकाल्पः।
इति । तदमे श्लोकाः छन्दोगपरिशिष्टस्यान्तिमे खण्डे पद्यन्ते । ग्राह्यसूत्रभाष्ये भट्टनारायणेन च पठिताः । परिभिष्टप्रकाशकृता तु नारायणोपाध्यायेन च्छन्दोगपरिशिष्टस्य हतीयप्रपाठकस्यान्तिमाः कतिचित् खण्डा न पठिताः न च व्याख्याताः । तदत्र भवन्तोभूमिदेवाः प्रमाणम्। अत्रच, निमित्तताब्राह्मणभोजनस्य पिण्डदानस्य चाननुष्ठानेऽप्युभयोः प्राधान्यं नानुपपन्नम् । असोमयाजिपक्षे दधिपयोयागवत् । फलश्रुतिश्चोभयत्राप्यस्ति । तदेवं न्यायोऽप्यनुग्टहीतो भवति ।
यच्च,-'नित्यश्राद्धादौ पिण्डनिषेधात् ब्राह्मणभोजनमात्रं प्रधानम्। निषेधोहि प्राप्तस्य, प्राप्तिश्चातिदेशात्, म चाङ्गानामेव,इति । अङ्गे च पिण्डदाने फलश्रुतिरर्थवादएव । पिण्डदानमात्रविधिस्वगभूतपिण्डदानात् कर्मान्तरम्'-इति शूलपाणिनोकम् । तत्र ब्रूमः । 'माममग्निहोत्रं जुहति'-इति कौण्डपायिनामयने, अग्निहोत्रवत् जुहति इति वचनव्यक्त्या यथा नैयमिकस्याग्दिहोत्रस्य धाश्रतिदिश्यन्ते, प्रधानश्च होमोयोगये च प्रजापतये च, इत्यादिः, यथा वा 'उद्भिदा यजेत'-इत्येवमादौ अव्यक्तयजतौ सौमिकधादव प्रधानापि यजतयः प्रदिश्यन्ते, तयोरूपान्तराभावात् । तददत्रापि स्यात् । प्रधानस्यातिदेशे न कश्चिदर्थः, इति खल्वसौ न प्रदिश्यते । यथाचावोचाम,-महानर्थस्तस्य भवति, इति कथमसौ न प्रदिश्येत ।
अथ मन्यसे, नासौ प्रधानस्यातिदेश: किन्त्वङ्गस्यैव । प्रधानं खल्वत्र जुहोतिना यजतिनाच विहितम् । द्रव्यदेवते पुनरङ्गे एव प्रदिश्येते अङ्गान्तरवत् , इति। एवन्तर्हि प्रकृतेऽपि श्राद्धोदनया
For Private and Personal Use Only