________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००६
माइकल्पः।
[२ का.]
उभयत्रैव फलश्रुतिदर्शनात् । नन, शेषेण पिण्डदानविधानायक प्रतिपत्तिरियम् । नैषदोषः । अर्थकर्मणि प्रतिपादनोपपत्तेः । बलिहरणवत् । यथा खल्वर्थकर्मणि बलिहरणे वैश्वदेवशेषस्य प्रतिपादनं, तथा अर्थकर्मणि पिण्डदाने शेषोयं प्रतिपाद्यते, इति । कथं ज्ञायते ?। फलवादोपपत्तेः। पिण्डे फलवादः खल्वेवमुपपत्स्यते । अफलायां प्रतिपत्तौ नैतस्योपपत्तिः । तस्मादर्थकर्मेतत् पिण्डदानमिति पश्यामः । इतश्चैतदेवं पश्यामः । श्रभावेऽपि दर्शनात् । शेषस्थाभावेऽपि पिण्डदानं दृश्यते। व?। पिण्डपित्यज्ञादौ । ब्राह्मणभोजनं तत्र नास्ति । ब्राह्मणभोजनस्य चाभावे कस्य शेषः प्रतिपादयिष्यते । तस्मादर्थकमॆवासौ न प्रतिपत्तिः । तत्रैव शेषः प्रतिपाद्यते । प्रतिपत्त्यर्थकर्म वैतत् स्यात् न प्रतिपत्तिरेव । ब्राह्मणभोजनात् पुरस्तादपि केषाञ्चित् पिण्डदानदर्शनाचैवमवगच्छामः ।
तत्र, उभयं प्रधानम्, इति भट्टनारायणप्रभृतयोमन्यन्ते । श्लोकानप्युदाहरन्ति ।
"प्राधान्यं पिण्डदानस्य केचिदाहुमणीषिणः । गयादौ पिण्डमात्रस्य दीयमानस्य दर्शनात् । भोजनस्य प्रधानत्वं वदन्यन्ये महर्षयः । ब्राह्मणस्य परीक्षायां महायनप्रदर्शनात् । श्रामश्राद्धविधानस्य विना पिण्डैः क्रियाविधेः । तदालभ्याप्यनध्यायविधानश्रवणदपि । विद्वन्मतमुपादाय मम त्वेतत् हदि स्थितम । प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः" ।
For Private and Personal Use Only