________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
बाइकाल्पः।
१००५
श्राद्धदिने बलिवैश्वदेवौ च श्राद्धोत्तरकाले श्राद्धशेषेण करणीयौ। कुतः ?।
श्राद्धालि श्राद्धशेषेण वैश्वदेवं समाचरेत्” । इति स्मरणात् । अपिच । पिलभ्योहविनिरूप्य तेभ्योऽदत्त्वा न खन्वन्येभ्यस्तस्य दानमुचितम् । तदुक्तं निरुते नैगमकाण्डे । “अगस्त्यइन्द्राय हविनिरूप्य मरुद्भ्यः सम्प्रदित्साञ्चकार, स इन्द्रएत्य परिदेवयाञ्चक्रे"-इति। तस्मात् श्राद्धशेषेणैतयोःकरणं न ततः पूर्वम्,इति। विस्तरेण चैतदस्माभिर्ट ह्यसूत्रभाष्येऽभिहितमित्युपारम्यते । ___ अथैतस्मिन् कर्मणि किं प्रधानमित्यस्य निरूपणार्थं संक्षेपताविचारणं करिष्यामः । किं भवति प्रयोजनम् ?। यत् प्रधानं तावन्माचे निवृत्ते अतिपतितेप्यन्यस्मिन् कस्याञ्चिदवस्थायां पुरुषोन प्रत्यवैष्यति, इति । तत्र, इदं तावत् नः परीक्ष्यम्,-किं ब्राह्मणनिमन्त्रणादि सर्व प्रधानम् , उत एषु मध्ये किञ्चित् , इति । सबै तावन्न भवति प्रधानम् । किं कारणम्? । प्रत्यक्षं खल्वेषु कस्यचित् परार्थत्वम् । यथा निमन्त्रणादे जनाद्ययंत्वम् । रेखाकरणदेश्च पिण्डदानाद्यर्थत्वम् । वचनमत्रार्थ नास्ति, इति चेत् । मासीदचनं प्रत्यक्षं तावदेतत् । यच्च परार्थं न तत् प्रधानम्। शेषः खल्वसौ । तथाचोकम् । “शेषः परार्थत्वात्” इति । न च, सर्वत्र तत्र भवन्तः फलमामनन्ति । फलवतः सन्निधौ च यदफलं श्रूयते, तत् फलवतो भवत्यङ्गमिति । तस्मात् किञ्चिदेषु प्रधानं न सर्वम्,इति स्थितम् । एवं स्थिते चिन्ता । किं ब्राह्मणभोजनं प्रधानम् , आहाखित् पिण्डदानम् , उताही उभयम् ?-इति। कुतः संशयः ? ।
For Private and Personal Use Only