________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००४
[ २ का. ]
द्वचनमिति प्रतिपद्यामहे । पित्रधीनः खल्वन्येषां यागः, -इति पितृब्राह्मणे विसृष्टे सर्व्वएवैते सुतरां विसृष्टाभवन्ति, - इति । तदिदं देवा
Acharya Shri Kailassagarsuri Gyanmandir
मादकस्यः ।
न्तत्वं श्राद्धस्य । तदेवं धूर्यं ब्राह्मणमुत्थाप्य, समुत्थितान् सर्व्वीन्
ब्राह्मणान् तन्त्रेण प्रणमेत् ॥०॥ ३८ ॥ ० ॥
आमा वाजस्य प्रसव जगम्या देमे द्यावापृथिवीविश्वरूपे अमा गन्तां पितरा मातरा चामा सामा अमृतत्वेन गम्यादित्यासीमान्तमनुब्रज्याभिवाद्य प्रदक्षिणीकृत्य वामदेव्यं गीत्वा प्रविशति ॥ ४० ॥
2
श्रमा वाजस्य – इति मन्त्रेण सकृत्पठितेनैव सर्व्वान् ब्राह्मणान् सीमापर्यन्तमनुब्रज्य सर्व्वानभिवाद्य प्रदक्षिणीकृत्य च वामदेव्यं नाम साम गीत्वा श्रथ प्रविशति गृहम् । 'कयानश्चित्रमाभूवत्' – इति यूचे वक्रे गीयमानं साम वामदेव्यम् । रघुनन्दनस्त्वन्यथेमं ग्रन्थं पठति पितरा मातरा' - इत्यादिम् । “ पितरा मातरा युवमामा सामोऽमृतत्वाय गम्यादित्येतयाऽनुब्रज्य प्रदक्षिणीकृत्याभिवादयेत् तवामदेव्यं गीला ग्टहं प्रविशति” – इति ।
-
एतत्पर्यन्तं कृत्वा, “ मध्यमं पिण्डं पत्नी पुत्रकामा श्राश्रीयादात्त पितरोगर्भमिति, योवा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात् ” - इति, " द्वन्द्वं पात्राणि प्रक्षाल्य प्रत्यतिहारयेत्” – इति च चोदकप्राप्तं कर्त्तव्यम् । तत्र, 'योवा तेषाम्' - इति सूत्रेण श्राद्धशेषभोजनमुक्तम् । तचैतत् स्वभोजनकाले स्यात् न पुनरेतस्मिन्नेव क्रमे - इति । पिण्डप्रतिपत्तिश्चान्वष्टकयोक्ता ग्राह्या ।
1
For Private and Personal Use Only