________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकल्पः।
वाजेवाजे वतवाजिनाधनेषु विप्राअसतातज्ञा अस्य मध्वः पिवत मादयध्वं तृप्तायात पथिभिर्देवयानैरित्येतया विसृज्य ॥ ३९ ॥
वाजेवाजे, इत्येतया ऋचा ब्राह्मणान् विसृज्य । विसर्जनप्रकारश्च छन्दोगपरिशिष्टोतोग्राह्यः । यथा,
"युग्मानेव स्वस्तिवाच्यानङ्गष्ठग्रहणं सदा ।
कृत्वा, धूर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः” । इति। अस्मादचनादवगच्छामः, सकृन्मन्त्रमुच्चार्य धूर्य्यस्य विप्रस्यानङ्गुष्ठं पाणिं ग्टह्णीयात् । तावतैव सर्वे ब्राह्मणाविसृष्टाभवन्ति,इति। मायं धू-विप्रः पियएव भवति । किं कारणम् ?। पित्र) हि श्राद्धं देवाश्च तदङ्गतयेज्यन्ते । तत्रैवं मति, ब्राह्मणेषु यः श्रुतादिभिरन्यानत्येति, सायं धूर्यः पित्र्यएव नियोकव्योभवति, न खल्वपि देवे। न हि प्रधानमतिक्रम्य तच्छेषे विशेषस्थाभिनिवेशः प्रधाने तु सामान्यस्येति साध्वी कल्पना भवति । तस्मात् पियएव विप्रोर्यः । तस्य च पाणिं ग्रहीत्वोत्थापनं करणीयम् । तावता न केवलमयमेवैकः, यावत् सर्व्वपि श्राद्धिब्राह्मणउत्थापिताविसृष्टाश्च भवन्ति। तदेवं धूयं ब्राह्मणमनु परेषामुत्थानावगतेः पश्चादेव दैवब्राह्मणः समुत्थितोविसृष्टश्च भवति, दूत्यर्थात् मिद्धम् । अथात्रापिदैवपूर्खत्वमिथ्येत, धूर्य्यस्येतिवचनमनर्थकं स्यात् । कथम् ? । धूर्य्यस्येतिवचने धूर्य्यस्यान्यस्य च हस्तग्रहणं प्राप्नोति। अवचनेपि तथैव प्राप्नोति। किमिति धर्यस्येति करोति । तस्मात् , परिसंख्यानार्थमेवेत
For Private and Personal Use Only