________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[२का.
मंयोजा यवकर्कन्धदधिभिः प्राङ्मुखस्ततः । श्रवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनरण्यवनेजयेत् । इत्यवनेजनात् परतोऽनस्योद्धरणं पिण्डदानञ्चाह। यद्यप्येतदाभ्युदयिके कात्यायनेनोक्र, तथापि,
"अन्यत्राप्येषएव स्यात् यवादिरहिताविधिः । दक्षिणप्लवने देशे दक्षिणाभिमुखस्य च ।
दक्षिणायेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः" । इत्यनुपदं तेनैवान्यचापि तस्य विधेरतिदेशादत्राप्येतत् सिध्यति । यश्चान्यत्र विशेषोदक्षिणाप्लवनदेशादिस्तस्य विशेषतोऽभिधानाचैतदेवं । प्रतिपत्तव्यम् । एषएव, इति चैवकारेण तस्यार्थस्य व्याप्तेापनात् । तस्मादवगच्छामः,-उपदिष्टविशेषव्यतिरेकेण सर्वमन्यदन्यत्र भवसीति । नचेदेवम् , 'अन्यत्राप्येषएव स्यात्'-दत्यनर्थकमापद्येत । तस्माद्यथोकमेवास्तु ।
एतदनन्तरं वृद्धप्रपितामहादिभ्यः लेपोदातव्यः । “लेपभाजश्चतुाद्याः" इति वचनात् । स चायं लेपः, संबोधनपदेनामन्त्रय स्वधापदेन करणीयः । मातामहपने पृथक् करणमुक्तम्। अथेदानी कात्यायनोकमवनेजनं चोदकप्राप्तानि जप-टहावेक्षण-पिण्डावेक्षणवासानिधानानि च कर्त्तव्यानि । तत्प्रकारस्तु ग्टह्यसूत्रादुपलब्धव्यः । तदमे अतिदेशागताः, इति कृत्वा, तत्रभवान् सूत्रकारोनैतान् सूत्रयाम्बभूवेति निष्यते ॥ ॥ ३१ ॥०॥
For Private and Personal Use Only