________________
Shri Mahavir Jain Aradhana Kendra
[२ का.]
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
“कर्षूसमन्वितं मुक्ता तथाऽऽद्यं श्राद्भूषाडृशम् । प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्युः षड़िति स्थितिः” ।
इति । दैवेऽपि चेत् पिण्डोदीयते, सप्तैव पिण्डाः स्युः । विकिरस्तु न पिण्डः, येन संख्यावचनमिदमुपरुह्यत ।
,
अत्र च चोदकबलात् प्राप्तं रेखोल्लेखनं कृत्वा, तत्र दर्भानास्तीर्य, चोदकप्राप्तं पितृणामावाहनं कृत्वा श्रवनेजनं कर्त्तव्यम् । श्रथेदानी - मन्नमुद्धृत्य, श्रन्वष्टक्योक्ररीत्या पिण्डदानं करणीयमित्ययं कक्रमः । 'उद्धृत्य' – इति 'अवनेनिज्य' - इति च द्वयमेव पिण्डान् दद्यादित्यनेनान्वेति । “अव्यक्त प्रधानगामि" - इति वचनात् । नत्वनयेोरपि परस्परमस्त्यभिसंबन्धः । कस्मात् ? । द्वयोरपि पिण्डदानार्थतया समत्वात्। प्रमाणाभावाच्च । तस्मादुद्धरणावनेजनयेाः पिण्डदानपूर्व्वकालतामात्रमत्रोच्यते, न पुनस्तयोरपि पूर्वापरीभावः । श्रुतः कथं प्राकृतमनयोः पौर्वापर्यं चोदकप्राप्तमुत्सृज्येत । अथ, वैकृतात् पाठक्रमादनयोः क्रमः कल्पयते ? । नैतत् शक्यते । परिचिकल्पयिषिताह्यनयेाः पाठक्रमात् क्रमः । क्लृप्तस्तु प्राकृतः क्रमोऽस्ति तेन च विरुद्धः परिचिकल्पयिषितः क्रमोन खन्यपि सेडुमईतीति । नचाविरोधेन सम्भवति वचनार्थे विरोधः कल्पयितुमुचितः । कात्यायनेोपि - " प्रागग्रेव्वथ दर्भेषु श्राद्यमामन्त्रा पूर्व्ववत् । श्रपः चिपेन्यूलदेशेऽवनेनिच्क्ष्वेति निस्तिलाः । द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः । मातामहप्रभृतीं स्त्रीनेतेषामेववामतः । सर्व्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपखिच्य च ।
For Private and Personal Use Only