________________
Shri Mahavir Jain Aradhana Kendra
¿cc
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
[२ का. ]
विल्वप्रमाणाभवन्ति । न चैतत् शेषान्नानां प्रभूततरत्वे, निरवशेषेण शेषान्नेन पिण्डदानमित्यस्यां वर्णनायामुपपद्यते । 'दुष्टैः सहोपभुज्यताम्' – इत्यनुज्ञानाच्चैतदेवं प्रतिपत्तव्यम् । तस्मात् यत् किञ्चिदन्नव्यञ्जनादिकमवशिष्टं तस्मात् सर्व्वस्मादेव किञ्चित् किञ्चिङ्गृहीत्वा एकस्मिन् पात्रे कृत्वा, तेन पिण्डदानं कर्त्तव्यम्, इति सिद्धम् । तथाचान्वष्टक्यकर्मणि कात्यायनः ।
" यावदर्थमुपादाय हविषेोऽर्भकमर्भकम् । चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत्” ।
इति । तस्मात्, –— श्रवशिष्टं मधुतिलादिकमपि पिण्डार्थं ग्रहीतव्यं भवति । ‘दर्भेषु’–इति वैकृतेाविशेषेोपदेशश्चादकप्राप्तां प्राकृतों कर्षू निवर्त्तयति । श्रन्यन्तु सव्वं प्राकृतमिहापि प्रवर्त्तते । 'दर्भेषु' - इति वचनात् दर्बोनिवृत्तिरित्यसङ्गतैषा कल्पना । श्राधाराः खल्विमेदभीः प्राकृतमाधारान्तरमेव निवर्त्तयन्ति न करणभूतामतिदेशागतां afafe | तस्मादवयवदत्रापि कर्मणि चोदकप्राप्तया दव पिण्डादातव्याः ।
त्रींस्त्रीन् - इति वीणा मातामहपक्षापेक्षया । तेन, “देवपू श्राद्धं कुर्वीत " - इति वचनात् देवेऽपि पिण्डदानं स्यादासनादिवत् - इति पर्य्यनुयोगोपि निरस्तः । " मातामहाना चैवम् ” - इति वचने त्यपि यदयं सूत्रकारस्त्रींस्त्रीनिति वीसामभिधत्ते, तद्बोधयति षडेवात्र पिण्डाभवन्ति, न पुनर्देवेऽपि पिण्डदातव्यः - इति । तथाच छन्दोगपरिशिष्टम् ।
For Private and Personal Use Only