________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकल्पः।
१.
आचान्तेषूदकं पुष्पाण्यक्षतानक्षय्योदकञ्च दद्यात् ॥
॥३२॥ आचान्तेषु ब्राह्मणेषु सत्म उदकादिकं दद्यात् । तस्मादाचमनमिदानी दातव्यम् । तचैतत् पिण्डेषु वृष्णीं गन्धादिकं निःक्षिप्य करणीयम् कुतः ? ।
"गन्धादीन् निःक्षिपेत्तणी तत श्राचामयेत् दिजान्”। इति छन्दोगपरिशिष्टवचनात् । पिण्डप्रदानं प्रस्तुयेतस्याभिधानात् पिण्डेब्वेव गन्धादीनां निःक्षेपः । पिण्डस्था हि पितरो भवन्ति । "पिण्डानवेक्षते सदोवः पितरोदेम” इति ह्यतम् । 'गन्धादीन्'इत्यनेन च यथासम्भवं गन्धपुष्पादयोगम्यन्ते । पूजार्थत्वादस्य । वासस्तु पूर्वमेवप्रदत्तम् । तस्माइन्धपूष्यधूपदीपाः इदानी दातव्याः । "तथा गन्धान्”-इतिवत्पुंमा निर्देशात् पूर्वोक्ताएव गन्धादयोहदयमागच्छन्ति । श्रागच्छन्ति चेत् , किमित्युत्सृज्येरन् । तत्र वाससः पूर्व प्रदानादवशिष्टानामिदानी दानम् । तदमोषां पिण्डेषु निःक्षेपविधानात् देवेच पिण्डाभावात् पिटमातामहपक्षयोरेव करणमिति द्रष्टव्यम् ।
तदेवं गन्धादीन् निःक्षिप्य, पित्रादीनां बयाणं गोत्रादिकमुलिख्य एतत्ते पाचमनं स्वधा,-इति तन्त्रेणाचमनं देयम् । एवं मातामहपत्तेऽपि । नात्र गन्धादिविव बूष्णीमिति करोति । येनामन्त्रकमस्य प्रदानं स्यात् । तदिदं दैवपूर्वमेव देयं भवति । कस्मात् । "दैवपूर्व श्राद्धं कुर्वोत"-इति वचनात् । देवलाद्युक्रस्तु क्रमव्यत्ययस्तत्तत्प्रयोगविषयः । प्राचान्तेषु यदिदमुदकदानं, तदासेचनरूपम् ।
For Private and Personal Use Only