________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
बाडकाल्पः।
ह
दूदमिदानी मन्दिह्यते । किमयं जपः उपवीतिना प्रामुखेन करणीयः, श्राहाखित् प्राचीनावीतिना दक्षिणामुखेन ? इति। कुतः पुनरयं संशयः ? । यताजपोयं पिलदत्तस्याक्षयत्वाय, श्रात्मनश्चाभ्युदयाय भवति, इति वक्ष्यति । ततः संशयः । उच्यते । प्राचीनावीतिना दक्षिणामुखेन, दूति ब्रूमः । कस्मात् ? । यस्मात् प्राधान्येन पिलदत्तस्थादयत्वफलकोऽयं जपः पित्र्यमेव कर्म । प्रकरणाच्च । तत्र खल्वस्माकं प्राचीनावीतित्वमेव प्राप्तं । पिण्डपित्यज्ञे च योजपः,-'नमोवः पितरोजीवाय' इत्येवमादिः, सायं नियमतः प्राचीनावीतिनैव क्रियते। "तऊर्दू प्राचीनावीतिना वाग्यतेन कृतम्' इति ग्ह्यकारसूत्रणात् । तच्चेहापि चोदकः प्रापयति । यत् पुनर्जमदग्निवचनम्,-.
"अपसव्येन कर्त्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तस्तोत्रजपं मुक्का विप्राणाञ्च विसर्जनम्" । इति । तदपि नैतदिषयम्। सूतस्तोत्रजपविषयत्वात्तस्य । न खल्वत्र सूक्तजपः स्तोत्रजपो वा विहितः । किन्तु माम्नामेव। तस्मात् यथोकमेवास्तु ॥०॥ २६ ॥॥ जपफलमाह,
स्वर्ग लोके महीयते दत्तञ्चास्याक्षयं भवति ॥२७॥
तान्येतानि जपन् स्वयमपि स्वर्ग लोके महीयते । जपतश्चास्य पित्रभ्योदत्तमन्नादिकमक्षयं भवति । अस्येति संबन्धलक्षणा षष्ठी ॥०॥ ॥२७॥०॥
For Private and Personal Use Only