________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E8
श्राद्धकल्पः।
[२ का.]
तृप्तिं ज्ञात्वाऽन्न प्रकीर्य ये अमिदग्धाजीवा येप्यदग्धाः कुलेमम भूमादत्तेन तृप्यन्तु तृप्तायान्तु परांगतिमिति ॥ २८॥
ब्राह्मणानां तृप्तिमवधाऱ्या प्रकृतं किञ्चिदन्नं 'ये अमिदग्धाः' इति मन्त्रेण प्रकीर्य, न सर्वमेव भुक्तावशिष्टमन्नम् । कथं ज्ञायते ? । पिण्डदानस्याप्यनेनैवानेन वक्ष्यमाणत्वात् । 'ये अमिदग्धाजीवाः'इत्यत्र, 'अग्मिदग्धाश्च ये जीवाः' इति केचित् पठन्ति ।
कथं पुनरिदानी बप्तिीतुं शक्या, परतोहि उप्तिप्रश्नं सूत्रयिव्यति? । उच्यते । यदा दीयमानमन्नं नेच्छन्ति, बहु चान्नं पात्रे विद्यते, भवति तदा विज्ञानम्-दमे हप्ताः, इति । दृप्तिप्रश्नस्तह्यनर्थकोभवति ? । किं क्रियताम् यस्यार्थानास्ति । अनर्थकेऽप्रवृत्तिरिति चेत्। भवेदेतदेवं यदि वचनमचार्थे न स्यात् । “किमिव हि वचनं न कुर्यात् नास्ति वचनस्यातिभारः” इति खल्वाहुः शास्त्रतात्पर्य्यविदः । अपि च । न तदेवानर्थकं यस्य दृष्टोऽर्थानास्ति । अदृष्टमपि ह्याभवति। तस्मात् तदेव तिप्रश्नस्यार्थीभविष्यति।
तदिदमन्नं भूमावेवास्माकं प्रकरितव्यं भवति, न कुशेोपरि । कुतः ? । 'भूमौ दत्तेन'-इति मन्त्रलिङ्गात् ।
"दीयमानं न ग्टहन्ति अन्नञ्च बहु विद्यते ।
ज्ञात्वा दृप्तिं ततोदेयोदर्भेषु विकिरश्च यः” । इति वृहस्पतिवचनं तदुक्कप्रयोगविषयम् । एवं मत्स्यपुराणाहु के येषां न माता'-इत्यादि मन्त्रान्तरमपि तत्तत्प्रयोगविषयमेव ।
For Private and Personal Use Only