________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
आडकल्पः।
[२ का.]
र्थता। तथापि, तत्रभवन्तो ब्राह्मणाः कथमनुत्सृष्टं परखानमुपयोध्यन्ति । तस्मात्तदर्थमन्त्रोत्सर्गः। __"श्रद्धासमन्वितैर्दत्तं पितृणं नामगोत्रतः । - यदाहारास्तु ते जातास्तदाहारत्वमेति तत्" । इति च स्मरन्ति । अनुपदमापोशानार्थानामपां प्रदानस्थ सूचणाचास्मिन्नेव क्रमे तत्करणमवगच्छामः । उत्सर्गस्य वृत्तत्वे खल्विदानीमुपयोगोब्राह्मणानामापततीत्यनुपदमापोशानार्थानामपां प्रदानमुपपन्नतरं भवति। दत्ते खल्वन्ने पूर्व पाणिषु दत्तं इतशेषमन्ने निक्षिप्यापोशानं कृत्वा ब्राह्मणाअन्नमुपयोक्ष्यन्ति, इति। कात्यायनोऽप्यस्मिन्नवसरेऽनोत्सर्गमुपदिशति। तथाच कात्यायनसूत्रम् । “वैष्णव्यच्ची यजुषा वाऽङ्गुष्ठमन्नेऽवगाह्यापहताइति तिलान् विकीर्योष्णं खिष्टमन्नं दद्यात्” इति । तथा छन्दोगापरसूत्रम् । “अङ्गुष्ठमन्नेऽवधायासावेतत्तेऽनमिति, मकृत्मकृदयः प्रतिष्य"-इति । सोऽयं न्यायावगतोऽर्थदति कृत्वा न खल्वत्रभवान् सूत्रकारउत्सर्गमन्नस्य सूत्रयाञ्चकार, इति स्लिव्यते । रघुनन्दनस्तु,-"वैष्णव्यची यजुषा वाऽङ्गुष्ठमन्ने निधायापहतेति तिलान् विकीर्योषणमन्नं दद्यात्" इति सूत्रं पठति । क्वचिगौडीये सूत्रग्रन्थेऽप्येवमेव सूत्रपाठोदृश्यते । तदा व्यक्तमस्मिन्नवसरेऽन्नस्थोत्सर्गः, इति । परन्तु पाश्चात्यसूत्रग्रन्थेष्वदर्शनात् भाव्यकृता महायशमाऽपठितत्वाञ्च तत्र नात्यन्तमास्थेत्यन्यथै तदस्माभिर्व्यवस्थापितम् । रघुनन्दनोकसूत्रपाठस्य प्रामाणिकत्वे तु तदुक्कापहताइति मन्त्रेणैव तिलविकरणमिति द्रष्टव्यम् ।
स खल्वयमनस्यात्मर्गः संबोधनपदेनामन्व्य स्वधापदेन करणीयः ।
For Private and Personal Use Only