________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
1७७
दद्यात्तद्धवियैरुपसिच्च" इति च परिभाषितम् । 'इविष्य'-इति तिलानामाख्या, इति महायशाः । देवे च यवविकरणं कर्त्तव्यम् । यः कश्चिदर्थः पिश्ये तिलैः क्रियते, म हि दैवे यवैः करणीयोभवति । यवविकरणञ्चेदं 'यवोऽसि' इति मन्त्रेण स्यात् । कुतः ? । मन्त्रविशेषस्यानुपदेशेन अर्घ्यपात्रीययवकिरणमन्त्रस्थादर्जुमुचितत्वात् । कथम्? । यवविकरणमामान्यात् । मन्त्रलिङ्गाच्च । तस्मात् , सूत्रानुपात्तत्वात् समन्त्रकयवविकरणं न, इत्यसङ्गतं वचनम् । यवविकरणस्याप्येवमकरणापत्तेश्च । क्रियते च । तस्मात् मन्त्रोऽपि पूर्वातयुक्त्या पद्यताम् । पिश्यदव देवेऽपि समन्त्रकत्वस्योचितत्वात् । विहिताविहितत्वसन्देहेचाविहितकरणमेव न्याय्यम्, इति भवानेवाह । पिश्ये तिलविकरणञ्च 'तिलोऽसि'-इति मन्त्रेण स्यात् । कुतः ? । मन्त्रलिङ्गात् । 'पृक्तः वधया' इति ह्याह । 'स्वधा' इति पितृणामन्नं ब्रूमः । 'खधा वै पिढणामत्रम्-दति हि निगमोभवति ।
मध्धयन्ने देयम् । एवं हि मधुमन्त्रपाठीमधुजपश्च दृष्टार्थी भविष्यति । - "यो दद्यादन्नमस्माकं तत् सर्वं मधुना सह" । इत्यपि पित्गीता गाथा भवति ।
अस्मिन्नवसरेऽन्नस्योत्सर्गः करणीयः । कथं ज्ञायते ? । अन्नसंस्कारो ह्यङ्गुष्ठनिधानान्तेन परिसमाप्यते । न च तावतैव नः कृतकृत्यता । अतोऽन्नमिदानीमुत्स्रष्टव्यम् । उत्सृष्टं खल्वन्नं ब्राह्मणैरुपयुकं महते कल्याणाय कल्पस्यति, इति । अनर्थकस्तीत्सर्गः, ननु ब्राह्मणानामुपयोगेनैव कृतार्थता नः सम्पत्स्यते । वाढमेवं सम्पत्स्यते कृता
12
For Private and Personal Use Only