________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राडकल्पः।
[२ का.]
समुच्चयवादिनान्वियमनुपपत्तिरवर्जनीया स्यात् । 'मन्त्रितं पृथिवीत्येवम्'-दत्यनन्यगतेर्वचनात्, इत्यास्तां विस्तरः । सोऽयं न्यायलभ्योऽर्थः, इति कृत्वा न खल्वच भवान् सूत्रकारः परिवेशनमन्त्रस्य सूत्रयाञ्चकार, इति लिव्यते ॥०॥ २२ ॥०॥
वैष्णव्यची यजुषावाऽङ्गुष्ठमन्नेऽवधाय ॥ २३ ॥ वैष्णवी ऋक्,-'दूदं विष्णुर्विचक्रमे-इत्यादिका । यजुः,-'विष्णो ! हव्यं रक्षस्ख'-इति केचित्। 'कृष्ण! कव्यमिदं रक्षस्व मदीयम्'इति केचित् । उभयत्रैव, देवे 'हव्यम्'-दूति, पिये च 'कव्यम् ,इति पठन्ति । तदत्र भवन्तो भूमिदेवाः प्रमाणम्। वाशब्दाविकल्पार्थः । अङ्गुष्ठमन्नेऽवधाय निधाय । इदच्चाङ्गुष्ठनिवेशनमन्नसंस्कारार्थतया कुशमयबाह्मणपनेऽपि करणीयं भवति । स्मरन्ति च ।
"निरङ्गुष्टञ्च यत् श्राद्धं वहिर्जानु च यत् कृतम् ।
वहिर्जानु च यद्भुक्तं सर्वं भवति चासुरम्"। इति। अन्ने, दूति वचनाचान एवाङ्गुष्ठावधानं न जलादाविति द्रष्टव्यम्। अस्मिन्नवसरेऽन्ने तिलविकरणं करणीयम् । कथं ज्ञायते ? ।
"त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः" । इति ।
"प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च।
* * * * * * * * *
वालभानि प्रशस्तानि सदैवेतानि पैसके” । इति च कञ्चित् प्रयोगमनारभ्य सामान्यतः स्मरणात् । “यद्ह्याय
For Private and Personal Use Only