________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
त्राहकल्पः।
पू
गम्यते तावदेवम् । गम्यते चेत्, न युज्यते विनाकारणमुत्सष्टम् । पालम्भात् परतश्चेत् परिविश्यते, नूनमवगतिरियमुत्सृज्येत । तथाच. यथा 'उपविश्य मुझे इत्युपवेशनं भोजनकालमनुवर्त्तते, तथा 'बालभ्य जपेत्' इत्यालम्भोऽपि जपकालमनुवर्तते । तस्मात् परिवेशनात् परं पात्रालम्भः, ततोजपः, इति सिद्धम् । तन्त्रान्तरकारा अप्येवं स्मरन्ति । यथा याज्ञवल्क्यः ।
_ "दत्त्वाऽनं पृथिवीपात्रमिति पात्राभिमन्त्रणम्” । इति। पात्राभिमन्त्रणं पात्रस्थान्नाभिमन्त्रणम् । तथाच ब्रह्मपुराणम् । ____ “देवपूर्वं पिलभ्योऽन्नमाज्ययुक्तं मधुमुतम् ।
मन्त्रितं पृथिवीत्येवं मधुवातत्यूचं जपेत्” । इति मन्त्रितमन्नमित्यनस्य मन्त्रणमाह । यद्यप्येतत् सर्वं तत्तत्प्रयोग विषयम, तथापि न्यायागतस्थार्थस्योपोहलकं भवतीति तदुदाहरणार्थतयोपन्यस्तं परोकसमुच्चयवादिनां प्रत्यादेशार्थञ्च । यच मार्कण्डेयपुराणवचनम्,
"हुतशेषं प्रदद्यात्नु भाजनेषु दिजन्मनाम्। भाजनालम्भनं कृत्वा दत्त्वाचान्नं यथाविधि ।
यथासुखं जुषध्वं भोरितिवाच्यमनिष्ठुरम्"। इति । तत्रान्नस्य दानमुत्मान परिवेशनमिति समुच्चयवादिभिः सन्तोछुव्यम्। अनुपदम् , 'यथासुखं जुषध्वम्'-इति वचनोपदेशाच्चैतदेवं प्रतिपत्तव्यम् । अन्नोत्मगीत् परं हि तवचनं तैरियते । परमार्थतस्त्वेतदपि वचनं तदुक्तप्रयोगविषयमित्यस्माकं नास्त्यनुपपत्तिः। भाजनेषु हुतशेषप्रदानचैतदपोद्दलयति। न च तत्र जपोऽप्यस्ति, अनपदेशात् ।
For Private and Personal Use Only