________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
₹७४
श्राद्धकल्पः।
[२ का.]
"पृथिवी पात्रमित्यन्नमस्तं चिन्तयेत् पठन्” । इत्यन्नेऽमृतचिन्तामुपदिशति । रघुनन्दनस्वेतदबुद्धा, परिवेशनात् परताजपे मन्त्रलिङ्गविरोधमाह। यच्चापरमुकम्, मन्त्रे अस्तमित्यनेन यज्ञशेषमात्रावगतेस्तत्प्रक्षेपानन्तरमेव पावालम्भोजपश्च, ततः परिवेशनम्, इति। तदप्यसङ्गतम् । मन्त्रलिङ्गविरोधात् । कथम् ? । हुतशेषस्थात्र ब्राह्मणाय दानेन पात्रे प्रक्षेपाभावात् पृथिवी ते पात्रमित्याद्यनुपपत्तेः। जुहोमि, इत्यनुपपत्तेश्च। यद्धि पूर्व ब्राह्मणाय दत्तं, कथमिदानीं तयेत। अन्नं खल्विदानी हयेत। अमृतशब्दस्य यज्ञशेषवचनत्वेऽपि तन्मात्रवचनवे न प्रमाणम्। तस्मात् परिवेशनात् परताजपेऽपि न कश्चिद्विरोधः । न खल्वपरिवेशितेऽन्ने तवाहतबुद्धिस्तत्पात्रादिषु वा पृथिव्यादिबुद्धिर्युका । तस्मात् परिवेशनात् परं पात्रालम्भोजपश्च कर्त्तव्यः। ___ आह । परिवेशनात् परतः पात्रालम्भे, इतशेषं दत्त्वा पात्रमालभ्य, इति वचनं विरुध्यते ? । न। यस्मादेवमपि हुतशेषदानस्य पूर्वकालता न विरोत्यते । तत्र हि वा स्मर्यते न प्रानन्तयें । न हि 'भुत्वा गच्छति'-इत्युक्त भोजनानन्तयं गमने गम्यते, किन्तु भोजने गमनात् पूर्वकालता। न हि भुत्वा अनाचम्यैव कश्चिद्गच्छति। अस्तु इह्यालम्भस्य पात्रार्थत्वात् पात्रालम्भात् परतः परिवेशनम् , ततो जपः ? । तदपि नास्ति । कुतः ? । यतः परिवेशनात् परमप्यालम्भे न तस्य पात्रार्थता हीयते, इत्यनैकान्तिकोहेतुः। अपिच । पालभ्य जपेत्, इति वचनात् पालम्भानन्तरं पात्रमत्यजन्नेव जपति, इति गम्यते। तदपि कथम्? इति चेत् । किमनेन प्रमकानुप्रसकेन ? ।
For Private and Personal Use Only