________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
ऽङ्गाष्ठनिवेशनमशनञ्च ब्राह्मणानां सूत्रयिष्यति । तदेवं साक्षादसूत्रितमप्यर्थादवगतमन्त्रपरिवेशनं कर्त्तव्यं भवति। यदि कर्त्तव्यम् , विशेषाभावात् जपात् परतएव क्रियताम् ? । न, इत्युच्यते । अन्नसंस्काराहि जपोन पात्रसंस्कारार्थः । अन्नेन हि संस्कृतेन नः प्रयोजनम्। तद्धि ब्राह्मणाउपयोक्ष्यन्ति । संस्कृतमपि हि पात्रं गुणभावेनान्नस्यैवोपकरिष्यति । करिष्यति चेत्, तस्यैवोपकारः कल्यताम् । अलं पात्रस्याप्युपकारान्तरकल्पनया। न हि जपेन दृष्टः कश्चिदुपकारः क्रियते, इत्यवश्यमदृष्टं कल्पनीयम्। सचेदन्नस्योपकरोति, एकमेवादृष्टं कल्पयितव्यं भवति। अथ तु, पात्रस्योपकुर्वनस्योपकरोति, इति कल्यते, हे तावददृष्टे कल्पयितव्ये भवतः । नचैतत् न्याय्यम् । अपूर्वप्रयुक्ताः खल्वालम्भजपादयः पदार्थाः प्रधानस्यैवाङ्गम्। तत्र, 'पात्रमालभ्य'-इति वचनात् पालम्भः पात्रस्योपकारद्वारा प्रधानस्योपकरोतु । जपे तु नैतदस्ति । प्रमाणाभावात् । मन्त्रो ह्यस्य अन्नार्थतां गमयति । 'पृथिवी ते पात्रम्'-दति ह्याह ! अन्नं हि ब्राह्मणस्य मुखे जुहोति, न पात्रम् । अन्नेऽपि तर्हि नायं मन्त्रार्थोघटते । न खल्वन्नस्य पात्रं पृथिवी, द्यौर्वा तस्य पिधानम् , ब्राह्मणस्य मुखं वा अमृतम् , न वा अन्नमप्यमृतं नाम । नेष दोषः । पञ्चाग्निविद्यादिवदुपपत्तेः । यथा हि पञ्चानिविद्यादिषु योषिदादिवन्यादिबुद्धिः, तथैवात्र पात्रादिषु पृथिव्यादिबुद्धिरभिप्रेयते। अन्नेचामृतबुद्धिः। संस्कारार्थम् । एवं खल्वेतदनुध्यातं मत् मंस्कृतं भविव्थति। संस्कृतञ्च सत् ब्राह्मणानामुपयोगेन महते कल्याणयोपकल्पिव्यते, इति । अमरणहेतुः खल्वन्नं शक्यममतमिति वकुम्। तथाच ब्राह्म पुराणे ।
For Private and Personal Use Only