________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
C
[ २ का. ]
शेषदानमाह । समुचयरसिका सौ प्रयोगान्तरविशेषानपि प्रयोगान्तरे समुच्चिनोति । स खल्वयं “जतेोच्छिष्टं ब्राह्मणेभ्य: प्रदाय"इति यमवचनं लिखन्नपि कथं पुनः पाचेषु जतशेषदानमाह, इति न खल्वधिगच्छामि ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्यः ।
- तदिदं ब्राह्मणेभ्योदत्तं हुतशेषमन्नमर्थादुपकल्पितैरन्नैर्मिश्रीकृत्य तैरुपयोक्तव्यमित्याजः । श्लोकमप्युदाहरन्ति ।
“अन्नं पाणितले दत्तं पूर्व्वमनन्यबुद्धयः । पितरस्तेन वप्यन्ति शेषान्नं न लभन्ति ते । यच्च पाणितले दत्तं यच्चान्नमुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते । इति । अस्मिन्नवसरे, अन्नादिपरिवेशनं कर्त्तव्यमिति वच्यामः । तविधिनिषेधाच यथासम्भवं स्मृत्यन्तरेभ्योऽवगन्तव्याः ॥ ● ॥ २१ ॥ ० ॥
-
पाचमालभ्य जपेत्, – पृथिवी ते पाचं द्यौः पिधानं ब्राह्मणस्य मुखे अम्मृते अमृतं जुहामि स्वाहेति ॥ २२ ॥
पाचमित्येकवचनमविवक्षितम् । भोजनपाचाण्यालभ्य स्पृष्ट्वा पृथिवी ते पाचमित्यादि मन्त्रं जपेत् । स चायमालम्भोदक्षिणहस्तेन कर्त्तव्यः । कुतः ? । अङ्गानभिधानात् । यच्च - “देवेऽनुत्तानपाणिभ्यामुत्तानाभ्याञ्च पैढके” ।
इति यमवचनम् । तत् तयुक्तप्रयोगविषयभित्य सक्कदा वेदितम् । स खल्वयं पाचालम्भोऽन्नं परिविश्य करणीयः । कथमनुचितमन्नपरिबेशनं क्रियते ? | अर्थतोऽवगतेरित्याह । श्रनुपदं खल्वाचाऽने
For Private and Personal Use Only