________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[२ का. ]
ද්විද්වී
उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्यामीति ॥ १९ ॥
ऋजुरतरार्थः । घृताक्तमिति कुर्व्वन् व्यजनचारादेरननुज्ञां दर्शयति । घृताक्रमेवान्नमुद्धृत्य – इत्यर्थः । तदेतद्गुणविधानार्थं पिण्डपितृयज्ञप्रदेशप्राप्तोऽपि प्रोऽनूद्यते ॥ ० ॥ १८ ॥ ० ॥
कुर्व्वित्यनुज्ञातः पिण्डपितृयज्ञवद्दुत्वा ॥ २० ॥
ऋजुरचरार्थः । पिण्डपित्तयज्ञ प्रदेशप्राप्तस्यापि कुर्व्वित्यनुज्ञानस्य पुनरुपादानम्,–“प्रत्याहुः क्रियतामित्यर्थकामं कुरुष्वेति परकामं कुर्व्विति पुत्रकामं" - इति च्छन्दोगापरसूत्रोक्ताधिकारिविशेषाननुज्ञानार्थम् । 'पिण्डपित्टयज्ञवदुपचारः - इति सिद्धे पिण्ड पिटयज्ञधर्मप्रदेशे, 'पिण्ड पिटयज्ञवद्धुत्वा' - इति पुनर्व्वचनं तन्त्रान्तरानुमतानां मन्त्रदैवतप्रकाराणां निरासार्थमादरार्थं वा । अनग्निमता खल्वत्र पिब्राह्मणहस्ते हातव्यम् । तथाचान्वष्टक्यकर्मणि कात्यायनः । " पित्र्ये यः पङ्क्तिमूर्द्धन्यस्तस्य पाणावनग्निमान् ।
वा मन्त्रवदन्येषां तृष्णीं पात्रेषु निःक्षिपेत्” ।
इति । यः पंङ्क्तिमूर्द्धन्यस्तस्य पाणौ मन्त्रबद्धुवा, श्रन्येषां पाणौ तूष्णीं हत्वा - इत्यर्थः । नचानुषङ्गे मानाभावादन्येषां पात्रेषु तूष्णीं निःक्षिपेत् । एवञ्च श्रन्येषामित्यभिधानात् तत्पात्रे हुतशेषं न देयमिति व्याख्यानं युक्तमिति वाच्यम् । मन्त्रवदित्यस्यानर्थकत्वापत्तेः । तत्पात्रे जतशेषदानाभावस्यादृष्टार्थतापत्तेश्च । शाखान्तरेऽपि सर्व्वेषां पाणौ होमोदृश्यते । किन्तु तत्र सर्व्वत्रैव मन्त्रसम्बन्धः, -इति विशेषः । यथा शौनकः
T
11
For Private and Personal Use Only