________________
Shri Mahavir Jain Aradhana Kendra
067
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
"सर्वेषामुपविष्टानां विप्राणामथ पाणिषु । विभज्य जुहुयात् सर्व्वं सोमायेत्यादिमन्त्रतः” ।
[२ का. ]
इति । तथा श्रश्वलायन: । “ श्रभ्यनुज्ञायां पाणिष्वेव वा " - इति । यदा पुनर्ब्राह्मणालाभात् कुशमयब्राह्मणे श्राद्धं क्रियते, तदा तत्रैव श्राद्धवदनौकरणहेामोऽपि कर्त्तव्यः । ब्राह्मणकार्ये तस्य विधानात् । अग्नौकरणहेामोहि गुणभावेन श्राद्धस्योपकरोति । तस्यापि विप्रपाणिः । मुख्यं कथं सगुणं स्यादिति खलसौ गुणेषु प्रवर्त्तते । स यदि गुणस्य गुणं विनिपातयति, नास्य किञ्चिद्धीयते । श्रथ तु गुणस्य गुणमनुरुन्धानामुख्यं विनिपातयति, स्वार्थेऽस्य हीयते । नचैतदुचितम् । तन्त्रान्तरदृष्टं जलादिकमचेच्छन्त्यन्ये ।
इदमिदानीं सन्दिह्यते । किमयमनौकरणहामः उपवीतिना प्राङ्मुखेन करणीयः, श्रहेोखित् प्राचीनावीतिना दक्षिणामुखेन ?इति । उभयथा, - इत्याह । तथाचोभयथा दर्शनम् । “स उदास्वाना द्वे ती जुहोति देवेभ्यः " - इति माध्यन्दिनीये ब्राह्मणे । "प्राचीनावीती भूत्वा दक्षिणासीनः * * म उद्वास्य द्वे श्राजती जुहाति" - इति च ज्ञातपथीये ब्राह्मणे । सोऽयं विकल्पः । श्राह । गृह्यकारविराधस्तर्हि स्यात् । स खल्वनौकरणहाममुपदिश्य, “ श्रत ऊर्द्ध प्राचीनावीतिना वाग्यतेन कृत्यम् " - इति सूत्रयन्ननौकरणहामे उपवीतित्वमभिप्रेति, - इति गम्यते । नायं दोषः । परतः प्राचीनावीतित्वोपदेशस्य पुरस्तादनियमाभिप्रायकतयैवे । पपत्तेर्नित्यवदुपवीतित्व प्रापकले मानाभावात् । तस्मादनौकरण होमे प्राचीनावीतित्वोपवीतिवर्विकल्पमभिप्रेति ग्टह्यकारः - इत्यवगच्छामः । स खल्वयम स्पष्टः सूत्रकारस्याभिप्रायः परिशिष्टकारेण स्पष्टीकृतः । यथा ।
For Private and Personal Use Only