________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[२ का.]
पित्रादित्रयब्राह्मणेभ्यः, पश्चात् पुष्पाणि, इत्येवंक्रमेण ब्राह्मणनिष्ठान् कृत्वा" इति । तस्मात् ,-'एकस्य सकलं गन्धादिकं प्रदायापरस्य देयम्' इत्यसङ्गतम् वचनम् । प्रतिपादनञ्चामीषाममन्त्रकं करणीयम् । तत्रमन्त्रस्यानुपदेशात् । तत्त्वकारस्वाइ । 'गन्धादीनां मिलितानां तन्त्रेणेवोत्सर्गः, निवेदनन्तु प्रत्येकशः । तथा च शाय्यायनः । "एषते गन्धः, एतत्ते पुष्पम् , एषते धूपः, एषते दीपः, एतत्त आच्छादनमिति" इति । तदसङ्गतम् । शाश्यायनेन ह्ययमुत्सर्गप्रकारोगन्धादीनामुपदिष्टः । न निवेदनप्रकारः। प्रतिपत्तौमन्त्रसंयोगस्थानावश्यकत्वात् । 'एषते पिण्डः' इत्यपि अनुपदं तस्य सूत्रणमस्ति । न हि पिण्डोऽप्युत्सृज्य प्रतिपाद्यते । तस्मात् पिण्डे तावदुत्सर्गप्रकारोऽयमित्यविवादम् । तत्मामान्यागन्धादीनामपि तथैवास्तु । अलंप्रतिपत्तौ मन्त्रान्वयवर्णनेन । तस्मात् , प्रत्येकममीषामुत्सर्गः शाट्यायनस्यानुमतः । सेोऽयं तदीयएव प्रयोगे निविशते न पुनरस्मदीयेऽपि । एतेन,
"एतदःपुष्पमित्युत्वा पुष्पाणि च निवेदयेत्” । इति ब्रह्मपुराणादिवचनान्यपि व्याख्यातानि । भवदप्येतत् प्रतिपादनमन्त्र तत्तत्प्रयोगएव भविष्यति, इत्यनुदाहरणम् । . अस्मिन्नवसरे भूमिशोधनमण्डलकरणभोजनपात्रस्थापनमिच्छन्ति । हुतशेषदानानन्तरमेव पात्रालम्भनोपदेशेन पर्व पात्रस्थापनस्थावगतेः । मण्डलमन्तरेण भोजने दोषश्रवणच । एतत् सर्वं स्मृत्यन्तरेभ्योयथासम्भवमवगन्तव्यम् ॥०॥
For Private and Personal Use Only