________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
श्राद्धकल्पः।
[२ का.]
'पैटकं प्रथम पात्रम्'-इत्यादि यमवचनविरोधोऽपि तस्यापरिहार्यः स्थात् । कथम् ? । तद्धिवचनं न्युजकरणपरतया स्वयं वर्णितम् । तत्र च पिटपितामहप्रपितामहपात्राण्युकानि। षणां युगपत्करणे कथं न विरोधः ।
तदिदं न्युनीकरणं कर्तुवामपार्श्वे करणीयम् । मौकात् । प्रयोगान्तरेऽप्येवं पश्यामः । “न्युजमुत्तरतोन्यसेत्" इति हि स्मरन्ति। उत्तरशब्दश,
"उत्तरे चास्य सौवर्ण लक्ष्म पार्श्व भविष्यति"। इति भारते, "तस्मात् यस्य दक्षिणतोलक्ष्म भवति, तं पुण्यलक्ष्मीकमित्याचक्षते, उत्तरतः स्त्रियाउत्तरायण हि स्त्री"-दूति शातपथीये च ब्राह्मणे, वामवचनोदृष्टः । महापि ग्रहीतव्योभवति । अविरोधात् । पिये च कर्मणि प्राचीदिगुत्तरा भवति । “या दक्षिणा मा प्राची, या पूर्वा सेत्तरा"-इति हि पियामिष्टिमुपक्रम्य ब्राह्मणं भवति ।
अस्मिन्नवसरे दूष्णीमुदकं दत्त्वा तिलोदकञ्च मन्त्रेण दातव्यम् । कुतः ?। “दीन् प्रदायोदकपूर्व तिलोदकं ददाति पितुर्नाम रहीत्वाऽसावेतत्ते तिलोदकं ये चात्र वामनु यांश्च त्वमनु तस्मै ते खधेति" "अप उपस्पृश्यैवमेवेतरयोः" इति ग्टह्यकारवचनात् ।
"वृष्णीं पृथगपोदद्यान्मन्त्रेण तु तिलोदकम् ।
गन्धोदकञ्च दातव्यं सन्निकर्षक्रमेण तु" । इति कर्मप्रदीपवचनाच्च । तदत्र, मन्त्रेण तिलोदकं गन्धोदकञ्च दातव्यम्, इति वदन् गन्धोदकमपि तिलोदकवत् ये चाच त्वाम्
For Private and Personal Use Only