________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
प्राहकल्पः।
इति मन्त्रेण दातव्यम्, इत्युपदिशति । यच 'अनुलेपनेयोग्यागन्धो गन्धोदकम्' इति नीलाम्बरेण वर्णितम् । तदसङ्गतम् । उद. कपदस्यानर्थकत्वापत्तेः । घृष्टोहि मलयजोगन्धोभवति। न च घृष्टानां विष्कानां नास्त्यनुलेपनयोग्यतेति तनिरासार्थमुदकपदमिति वाच्यम् । यातयामतयैव तस्य निरामात् । न चादृष्टार्थं घर्षणम् , येनैवमापाद्येत । दृष्टोहि तस्यार्थाऽनुलेपनयोग्यता नाम । अन्यथा भूयासु प्रदेशेषु गन्धमात्रीपादानादेवं प्रसज्येत । तस्मादमङ्गतैषा कल्पना। यद्यप्यन्वष्टक्यकर्मणि तदुपदिष्टम् , तथाप्यन्वष्टक्यधर्माणं पिण्डपित्यजे, पिण्डपित्यज्ञधर्माणाञ्चात्र प्रदेशादत्रापि करणीयं भवति । नात्र तन्निषिद्धम् । तदिदं तिलोदकदानं पात्रेषु करणीयम् । तथाच कात्यायनः ।
"श्रासनाद्यपर्यन्तं वशिष्ठेन यथोदितम् ।
कृत्वा काथ पात्रेषु उन दद्यात्तिलोदकम्" । इति । महायशास्वाह,-"नात्र तिलोदकदानं पृथक्कार्यं विधेरभावात् । * * पिण्डपित्यजेतिकर्त्तव्यताविधानात्तत्र चाप्रतिषेधादिति चेत् । न । अर्थान्तराभावात्तत्राप्रतिषेधः । किञ्च यदि तत्राप्रतिषिद्धमत्र क्रियते, तदा सकृदाच्छिन्नदर्भमुष्टिस्तरणमष्टमदेशपरिवारणं मांसचरुश्रपणञ्च स्यात्" इति । तदश्रद्धेयम् । अर्थपर्यन्तकानन्तरमेव तत्र तिलोदकदानं-कात्यायनः स्मरति । त्वं पुनरात्थ, तत्रान्तिराभावः, इति । “मकदाच्छिन्नं दर्भमुष्टिस्तोति"-दूति, “कर्षश्च" इति चैताभ्यां सूत्राभ्यां भगवता सह्यकारेण कर्षणामभितादर्भमुष्टिस्तरणस्योपदेशात् काश्चात्र निवृत्ते
10
For Private and Personal Use Only