________________
Shri Mahavir Jain Aradhana Kendra
६५२
www.kobatirth.org
[ २ का. ]
पक्षमभिप्रेत्यैव इयमावृत् सूचिता । दैवेऽपि यावत् शक्यं पिटदृष्टं करिष्यामः । ये चात्रत्वामिति मन्त्रस्तु देवे न शक्यते कर्त्तुम् । श्रसमवेतार्थत्वात् । तस्मात् कात्यायनेोक्तयैव रीत्या देवे उत्सर्गवाक्यं रचयितव्यं भवति ॥ ० ॥ १५ ॥ ० ॥
श्रप उपस्पृश्यैवमेवेतरयेाः ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रद्धकल्पः ।
*
अप उदकमुपस्पृश्य स्पृष्ट्वा एवमेव पूर्वीक्रियैवादृता इतरथेोः पितामहप्रपितामहयोरप्ययं ददाति, -- इति गतेन संबन्धः । मातामहादीनामपि "मातामहानाञ्चैवम् " - इति वचनात् सर्व्वमेवैतत् कर्त्त - व्यम् । तदिदमुत्सृष्टमर्घ्यमिदानीं ब्राह्मणेषु प्रतिपादयितव्यं भवति । पित्रर्थं खल्वेतदुत्सृष्टं पिटस्थानीया मे ब्राह्मणा भवन्ति । उत्तरत्र संस्त्रवमवनयनस्स्रुचणाचैवमवगच्छामः । संस्त्रवशब्दो हि "मंत्रवान् प्रामाति” - इत्यादौ स्वादिपाचलग्नप्रतिपादितावशिष्टाज्यादिद्रव्यवचनादृष्टः । स इहापि ग्रहीतव्यो भवति । श्रविरोधात् । प्रतिपादनप्रकार माह कात्यायनः ।
“गोत्रनामभिरामन्त्य पितृनर्थं प्रदापयेत् ।
** * **
ज्येष्ठोत्तरकरान युग्मान् कराग्राग्रपविचकान् । कृत्वाऽर्घ्यं संप्रदातव्यं नैकैकस्याच दीयते" |
दूति । तदत्रादौ ' गोत्रनामभि:' - इत्यादिना श्रर्थदानमुपदिश्य, परतः - 'ज्येष्ठोत्तरकरान् - इत्यादिना तत्प्रतिपादन प्रकारोऽभिहितः ।
For Private and Personal Use Only