________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[ २ का. ]
हि मन्त्रस्य क्वचित् दृष्टार्थतासम्भवः, तस्य नादृष्टार्थतामनुमन्यन्ते
मीमांसकाः । तथा चोकम् ।
ह५१
“यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पनम् । लभ्यतेऽर्थस्मृतिर्दृष्टा मन्त्रोच्चारणतस्विह । अर्थस्मृतिः प्रयोगार्थ प्रयोगाच्च फलोदयः । इति दृष्टार्थसम्पत्तौ नादृष्टमिह कल्प्यते । इति । श्रपिच । यस्मादयं सूत्रकारोऽनुपदमेव, "पउपस्पृश्यैवमेवेतरयेोः” – इति करोति, तस्मादवगच्छामः - पित्रमभिप्रेत्येव येचात्रत्वामिति मन्त्रः पठितः, -इति । या दिव्या, — इति मन्त्रोऽपि तर्हि देवेन प्राप्नोति । प्राप्नोति इति पश्यामः । समवैति खल्वयमाशंसा मन्त्रा देवेऽपि । समवैति चेत् — प्राप्नोत्यपि । श्रनयैव
"
1
-
युक्त्या एतत्ते अर्घ्यमित्यपि देवे प्रयोच्यते । कथमर्द्धजरतीयं वण्यंते, - एतते श्रमित्यन्तं दैवसाधारणं ये चात्रत्वामिति मन्त्रः पुनरसा - धारणः पित्र्ये, – इति ? । किं क्रियतां यत्रान्या गतिर्न सम्भवति । भवतामप्येतत समानम् । कथमन्यथा मन्त्रस्यः स्वधाशब्दोऽपि देवे न प्रयुज्यते । प्रयुज्यतामिति चेत् । न । यस्मादेवं सति - “स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् ।
स्वधाकारः पितृणान्तु हन्तका रोनृणां मतः” । इति । छन्दोगपरिशिष्टवचन विरोध श्रपद्येत । सर्व्वे च परीक्षका व्याकुप्येरन् । न चैवं त्वयाऽपि दूव्यते । तस्मात् सामर्थ्यादेषा व्यवस्था भविष्यतीत्यकामेनापि वाच्यम् । श्रतएव महायशसा देवेऽपि यादिव्या इति मन्त्रोलिखितः न येचाचत्वामिति । श्रथवा । प्राधान्यात् पित्र्यं
For Private and Personal Use Only