________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[ २ का. ]
सै।वर्णराजतै।दुम्बरखड्गमणिमयानां पाचाणामन्यतमेषु वा ॥ ११ ॥
दुम्बरं ताम्रमयम् । कथं ज्ञायते ? | सौवर्णादिमाहचर्य्यात् । वृक्षमयानां ' यज्ञियवृक्षचमसेषु' – इत्यनेनैव गतार्थत्वाच्च । खड्गमयं गण्डकशिरोस्थिनिर्मितम् । मणिमयानि मारकतस्फाटिकादीनि । तेषां खन्वेषां पात्राणामन्यतमेषु पात्रेषु वा 'पवित्रान्तर्हितेषु ' - इत्यादिगतेन संबन्धः । वाशब्दो विकल्पार्थः । तानि खल्वेतानि पात्राणि वैकल्पिकानि, - इत्येकजातीयान्येव सर्व्वीयर्घ्यपात्राणि कर्त्तव्यानि । न पुनः कानिचित् सौवर्णानि कानिचित् राजतानि, कानिचिच्चापरापराणि । किं कारणम् ? । 'विकल्पे हि नोभयः शास्त्रार्थः’—–इत्युक्तम् ॥०॥ ११॥०॥
पचपुटेषु ॥ १२ ॥
वाशब्दोऽत्र लुप्तवत् द्रष्टव्यः पूर्व्वस्मादा अनुषञ्जनीयः । यज्ञियवृक्षाणां पत्रपुटेषु वा पवित्रान्तर्हितेषु इत्यादिपूर्व्ववदर्थः ॥ ॥ १२ ॥०॥
यानि वा विद्यन्ते ॥ १३ ॥
यानि वा श्रनिषिद्धानि कदली वृक्षत्वगादीनि लभ्यन्ते तेषु वा पविचान्तर्हितेषु — इत्यादिगतेन संबन्धः ॥ ० ॥ १३ ॥०॥
एकैकस्यैकैकेन ददाति सपविचेषु हस्तेषु ॥ १४ ॥
एकैकस्य पित्रादेः एकैकेन प्रत्येकेन ददाति उत्सृजति । सपवित्रेषु
For Private and Personal Use Only