________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
प्राहकल्पः।
वाह्य यवान् विकीर्य, विश्वेदेवाः श्टणुतेमं हवमे, इत्यादिमन्त्रदयं जप्तव्यम्, इति वर्णयन्ति । तदसङ्गतम्। उत्तरमन्त्रयोर्जपे विनियोजकप्रमाणभावात्। अस्मत्सूत्रकारेण मन्त्रत्रयपाठानन्तरम् 'इति' कारकरणान्मन्त्रत्रयस्यैवावाहने विनियोगावगतेः । जपस्याबानुपदेशाच्च । “तत उत्तरजतं जपति"-इत्यभिधाय, शाव्यायनस्योत्तरमन्त्रयोपदेशः तच्छाखिना भविष्यति। कात्यायनोऽपि माध्यन्दिनीयानां सूत्रकारः, इति तदुपदेशोप्यस्माकं न भवति । यच्च रघुनन्दनेन, एवं वर्हिर्निषीदत,-दूत्यनन्तरम् ,-"इत्यावाह्य विकिरेत्” इति लिखितम् । तत् न सूत्रप्रतीकम् , अपितु सूत्रस्य खाभिमतं व्याख्यानम्, इति लिव्यते। कुतः ?। सूत्रग्रन्थे तदभावात् । तन्मतवादिनापि भाष्यकारेण शात्यायनवचनावष्टम्भेन तथा वर्णनाच्च । यदपि, “आवाहयेत्यनुज्ञाताविश्वेदेवासागत दाश्वसो दाशम: सत इति वा यवैरवकीर्य विश्वेदेवाः ग्टणुतं हवं मे ये अन्तरीचे यउपद्यविष्ठ ये अग्निजिता उतवा यजत्रासद्यास्मिन् वर्हिषिमादयध्वम्" इतिच्छन्दोगापरसूत्रम् । तदपि नैतत्प्रयोगे विनिशते । तदुक्तस्य वैकल्पिकमन्त्रान्तरात्रानुपदेशात् । अत्रोपदिष्टस्य 'श्रोषधय'-इत्यादि मन्त्रान्तरस्य तत्रानुपदेशाच्च । 'विश्वेदेवाः' इति मन्त्राप्येतस्मादिलक्षणएव तत्र पठितः ॥ ॥ ३ ॥०॥
__ अथ पितृनावाहयिष्यइति पृच्छति ॥ ४ ॥ अथेत्यानन्तार्थम् । कथं नाम?। दक्षहस्तेम तिलानादाय ॐकारं कृत्वा पिहनावाहयिष्ये,-इति पृच्छति, इति। कथं ज्ञायते ? ।
For Private and Personal Use Only